पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये साल्वो भैष्मीविवाहे यदुवलविजितश्चन्द्रचूडाद् विमानं विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । मस्तं निरुन्धनखिल यदुदैर्न्यत्र हीदुग्रवीर्य तस्यामात्यं द्यु॒मन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १ ॥ [स्कन्धः - १० साल्व इति । भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुनलेन यदुसेनया विजितः पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौमाख्यं विमानं बिन्दन् त्वयि कुरून् वसति सति त्वत्पुरी द्वारकाम् अभ्यमाङ्क्षीत् बभञ्ज | प्रद्युम्नस्तु तं साल्वं निरुन्धन् घुमन्तं न्यग्रहीद् जधान ॥ १ ॥ तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत् ते । मायातात व्यहिंसीदपि तब पुरतस्तत् स्वयापि क्षणार्धे नाशायीत्याहुरेके तदिदमवैमतं व्यास एवं न्यपेधीत् ॥ २॥ तावादति | सौमेशं साल्वम् । ते शार्ङ्ग धनुः अभ्रंशयत् त्याजयामास, तब पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमत्र- मतमिति व्यास एव " क शोकमोहौ नेहो वा भयं वा येऽज्ञसम्भवाः । क चाखण्डितविज्ञानज्ञानैश्चर्येश्वरो हरिः ॥” (श्री. भा. स्क. १०. अ. ७७. हो. ३१) इति न्यषेधीत् ॥ २ ॥ क्षिप्त्वा सौभं गदाचूर्णितनिधौ मञ्जु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद् गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिचैद्यवत् मापदैवयं सर्वेपामेष पूर्व त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ ३ ॥ क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि घृतमनसां मोक्षणाय ॥ ३ ॥ १ कि. ङ. पाठः, २. 'प' ख. घ. ङ. पाठः.