पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवार्येति । निजपक्षगान् पाण्डवान् निवार्य त्वं दनुजदारिणा असुरशरीर- भेदनशीलन स्वस्यारिणा सुदर्शनाख्येन चक्रेण विद्वेषिणः शिशुपालस्य शिरो जद्दिषे अच्छिनः । जनुस्त्रितये हिरण्यकशिपुरावणशिशुपालरूपे लब्धया ॥ ९ ॥ ततः सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया , मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ १० ॥ तत इति । ततः शिशुपालवधानन्तरं सुतरां महिते पूजिते । त्वया निरूढे परिसमापिते श्रीकृष्णो जयति सर्वस्मादुत्कृष्टो भवति, स ईश्वरो यस्य वशे स धर्मजो जयतीत्यालपन् जनो महाजनः स्वं स्वं भवनं ययौ | स कल्यंशः सुयोधनस्तु सपलानां शत्रूणां पाण्डवानां श्रिया समृद्ध्या श्रुतम् अस्यादिभि चलितं मनो यस्य | खाण्डवदाहे मयेनार्पिताया दत्तायाः समाया मुखे स्थलजल- भ्रमात् स्थलधिया जले पतनाद् जलधिया स्थळे वस्त्रान्तग्रहणाच्च अभ्रमीत् सम्भ्रान्तोऽभूत् ॥१०॥ तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो- रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपाद नाम बीजं वपन् जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ ११ ॥ तदेति । तदा सुयोधनस्य जाड्ये सति द्रुपदनन्दनाभीमयोर्मुख उत्थितं हसितं अपाङ्गकलया कटाक्षलेशेन किमप्युज्जृम्भयन् सातिशयं कुर्वन् तदेव धरामरनिराकृतौ बीजं वपन् कारणत्वेन स्थापयन् ॥ ११ ॥ इति जरासन्धवधवर्णनं युधिष्ठिरराजसूयवर्णनं च पञ्चाशीतितमं दशकं सैकम् ।