पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ नारायणीये त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं चकर्थ किसु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ६ ॥ [स्कन्धः - १० प्रचक्रुषीति | प्रचऋषि प्रारब्धवति । अभृतका भृतका दासा भवन्तीति भृतकीभवन्तः, प्रसन्नैः अनसूयकैः भृतकीभवद्भिः सकलै राजकैकुलम् ॥ ३ ॥ ततः सवनकर्मणि प्रवरमग्र्यपूंजाविधि विचार्य सहदेवबागनुगतः स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषे भुवनमेव तृप्तिं दधौ ॥ ७ ॥ तत इति । भगवान् श्रीकृष्णोऽग्रपूजामर्हतीति सहदेवस्य वाचमनुगतः अनुसृतः विश्वभूतात्मने सर्वभूतानामात्मभूताय अभ्यपूजाविधिं व्यधत्त । अतः ससुरमानुषं चराचरात्मकं भुवनमेव तृप्तिं दधौ ॥ ७ ॥ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जड: पशुपदुर्दुरुटं बटुम् । इति त्वयि स दुर्वचोविततिमुन्नासना- दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८ ॥ तत इति । चेदिपः शिशुपाल: । सभाजयति पूजयति। पशुपदुर्दुरूटं पशु- पापशदम् | त्वयित्वद्विषये दुर्वचोबिततिं यथा कश्चिन्मुमूर्षुर्भुक्तं सर्वमुद्रमति, तथोद्वमन् जल्पन् उदायुधः उद्धृतायुधः आसनादुदापतद् उत्थायाभ्ययात् । तदा त्वत्परिभवेन पाण्डवाः अमुं समपतन् हन्तुमुद्यताः ॥ ८ ॥ निवार्य निजपक्षगानभिमुखस्य विद्वेषिण- स्त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा | जनुत्रितयलब्धया सततचिन्तया शुद्धधी- स्त्वया स परमेकतामवृत योगिनां दुर्लभाम् ॥ ९ ॥

  • हकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'ग्रहे वा' इति ।