पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो याच समरोत्सवं द्विजमिषेण तं मागधम् | अपूर्णसुकृतं त्वभुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ४ ॥ गिरिजेति । गिरिजपुरं जरासन्धनगरी गताः समरोत्सवं द्रष्टुंजनकौ- तुकजनकं द्वन्द्वयुद्धं ययाच प्रार्थितवन्तः । अपूर्णमुक्कृतमिति । यद्यपि मृतिसमये त्वद्दर्शनाबकाशः सुकृतेन, तथापि सथोमुक्तिप्रदत्वत्कर्तृकवधसुकृतहीनमित्यर्थः । अतः पवनजेन संग्रामयन् युद्धं कारयन् राजानौ भीममागधौ, अथवा पाण्डव- दुर्योधनतत्पक्षीयान् राज्ञोऽन्योन्यं योधितवानिति राजयुध्वा त्वम् ॥ ४ ॥ अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्य जरसः सुतं पवनजेन निष्पादितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्ति परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ५ ॥ अशान्तेति | अशान्ते अदृष्टान्यतरजयपराजये समरे उद्धतम् अहङ्कृतं जरसः सुतं जरानाम्म्या पिशाच्या जातमात्र एव धान्या त्यक्तं देहशकलद्वयं संयोज्य सञ्जातचेतनतथा पुत्रत्वेन परिगृहीतम् । एवञ्च देहशकलयोद्वैधीभाव एवास्य मृतिः । एतद् विद्वांस्त्वं विटपपाटनारूपया संज्ञया ज्ञापकेन ज्ञाततत्त्वेन पवनजेन निष्पाटितं विदारितशरीरं कृत्वा निपात्य घातयित्वा तेन दिग्जये गृहीत्वा गिरिदर्यां निरुद्धान् नृपतीन् विमुच्य तेभ्यो मुदा परां प्रेमलक्षणां भक्ति समनुगृह्ण निजराज्यभोगे गतस्पृहानपि भुवो धर्मेण गुप्त्यै दिदेशिथ प्रेषयामासिथ । अथवा राज्ञां प्रजापालनरूपस्य स्वधर्मस्य गुप्त्यै भुवः स्वस्वविषयान् दिदेशिथ दत्त- वान् ॥ ५ ॥ प्रचॠषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् | १. 'कौ' क. ग. पाठः,