पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् । 1 अनाथशरणाय ते कमपि पूरुषं माहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥ १ ॥ तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरो- धेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वर्य । ते तुभ्यम् । सः दूतः । किं भूयसा विज्ञापनेनं । मागघक्षपणं जरासन्धवधमेवायाचत ॥ १ ॥ यियासुरभिमागधं तद्नु नारदोदीरिताद् युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ २ ॥ यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः । उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभय कार्यपर्याकुलः विरुद्धजयिनः शत्रु- निग्रहपूर्वकं कर्तव्याद् अध्वरादू राजसूयाख्या उभयसिद्धिः मागधनिग्रहबुधि- ष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तबति सति यौषिष्ठिरी पुरम् इन्द्रमस्थम् इयेथ गतवान् ॥ २ ॥ अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितः । श्रियं निरुपमाँ वहहह भक्तदासायितं भवन्तमयि ! मागधे महितवान् सर्भमार्जुनम् ॥ ३ ॥ - अशेषेति । त्वयि अशेषदयितायुते षोडशसहसपलीयुते समागते सति धर्मजः भवदपाऊन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्स्नां विजित्य निरु पमां श्रियं दिग्विजये लब्धं धनसञ्चयं वहन् अये ! भगवन् ! अहह आश्चर्यमेतत् भक्तदासायितं भक्तदासवदाचरन्तं मागधे जरासन्धे तज्जयार्थी प्रहितवान् ॥ ३ ॥ 'नेति मा' क. ग. पाठः २. 'नसि ॥ ' क्र. ग. पाठ: ३. जयल क. पाठ ४. 'रित भवन्त' क. ग. पाठा ५. 'अवघार्थ' क. पाठ: