पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६. नारायणीये तदन्विति । चिरतरविरहेण आतुराः अङ्गरेखाः कृशशरीराणि यासां ताः | अन्वयासीः अनुगतः ॥ ४ ॥ [स्कन्धः - १० K सपदि च भवदीक्षणोत्सवेन प्रमुषितमानां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयरे कुचे न्यलैषीः ॥ ५ ॥ सपदीति । प्रमुषितो मानो यस्मिन् तादृशं हृदू यासाम् । अतिरसेन अतिशयिते नान्योन्यानुरागेण परिमुक्ता यथाकथञ्चिदपनीता कञ्चुलीका गात्रिका यस्मात् । परिचयहृद्यतरे प्रागनुभूतस्य प्रत्यभिज्ञायमानतया कौतुकविशेषजनके कुचे न्यसैषीः क्षीरनीराख्यपरिरम्भणसुखमन्वभूः ॥ ५ ॥ रिजनकल है: पुनः पुन समुपगतैरियती बिलम्बनाभूत् । इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ||६|| रिपुजनकल हैरिति । मे मम पुनः पुनः समुपगतै रिपुजनकलहै: इयती अतिमहती बिलम्बना कालक्षेपोऽभूदिति वचनपुरस्सरं कृतपरिरम्भणे त्वयि द्वाग- तिविवशा झटिति त्यक्तमाना निलिल्ये त्वदैक्यमिवान्वभूत् ॥ ६ ॥ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्ववोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ७ ॥ अपगतेति । तदा रहसि ताः परिरम्भणादिभिरपगतविरहव्यथा विधाय अहं परमसुखचिदात्मकः परमानन्दबोधस्वरूपः सर्वेपामात्मान्तर्यामी च अतो बो मद्विरहः शोकावकाशश्च परमार्थतो नास्त्येवेति वश्चेतसि स्फुटमुदयतु निश्चयात्मि- का बुद्धिर्मदनुमहात् स्यादेवेति तत्त्वबोधं ददाथ || ७ || सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । समभवदतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ ८ ॥ सुखरसेति । तासां गोपत्रीणां पुरा उद्धबोपदेशैः उद्भवमुखेन कृतैरुपदेशै : मुखरसेनाल्पीयसा परिमिश्रितो वियोगो विरहदुःखं किमपि किश्चिदभवत् । अनु-