पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विति सान्स्वनार्थी यातः तेषामधिक्षेपवाक्यैर्जातेन रोषेणोतं करिनगरं हस्तिनपुरं येन स रामः साम्ब मोचयामास | तदानीम् अग्रजपरिभवे त्वं यदुष्टतनां नामुच: ते पाण्डवेयैर्धात्या इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥ इति पौण्ड्रकनचवर्णनं कशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं व घ्यशीतितमं दशकम् C कचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूतू । यदुकुलमहिलाकृतः सुतीर्थ समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १ ॥ क्वचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माण- मनिरुद्धं च निदधद् रक्षणार्थं निक्षिप्य ॥ १ ॥ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये । द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ २ ॥ बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्व- मुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परि मुक्तो दतो वित्तराशिर्येन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ||२|| तव खलु दविताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा | तहदितभवदाहृतित्रकारैरतिमुमुदे सममन्वयामिनीभिः ॥ ३ ॥ तवेति । द्रुपदसुता तब दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः त्वयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यमा- मिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥ तदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । चिरतरविरहातुराङ्गरेखा; पशुपवधूः सरसं त्वमन्वयासीः ॥ ४ ॥