पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये अभ्यापतत्यमितधाम्नि भवन्महाखे हा हेति विद्रुतवती खेड धोरकृत्या । रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुलोष चक्रमपि काशिपुरीमधाक्षीत् ॥ ८ ॥ " अभ्यापततीति । अमितम् अपरिच्छिन्न धाम तेजो यस्य, परिमित- धाम्नामग्न्यादितेजसामपि तेज:प्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्व- धानां च धाम' इति वचनात् तस्मिन् भवन्महात्रे सुदर्शनोख्ये अभ्यापत- ति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिण- चेष्टितं सुदक्षिणं रोषात् पुलोष काशिपुरीं सुदक्षिणराजधानीमपि अधाक्षीद् ददाह ॥ ८ ॥ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तब तु कलया मृत्युं मार्मु तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नयादो झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ ९॥ सखल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृति प्राप्तुं खलतां तव वैरितां गतः नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पा- दयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः ॥९॥ साम्ब कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोतृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुवृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ।। १० ।। साम्वमिति | कौरव्यपुत्रीं सुयोधनसुतां लक्षणां साम्ब: स्वयंवरे हृतवान् । १. 'किक' क. पेठ: २. 'ने अ' क. ग. पाठ:. ३. 'क्ष्म' के. पाठ: