पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ नारायणाये रामेऽथ गोकुलगते प्रमदात्रसके हूतानुषेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादसूढो दूतं न्ययुक्त तव पौण्डकवासुदेवः ॥ १ ॥ राम इति। प्रमदासु गोपीषु प्रसक्ते बोले । हूताम् आहूतां तथाप्यनुपेता- मनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति सतित्वं जगदीश्वर इति सेवकवादैर्मूढः पौण्डकवासुदेवः तव दूतं न्ययुङ्क्त नियुक्तवान् ॥ १ ॥ नारायणोऽहमवतीर्ण इहास्मि भूमौ वत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥ २ ॥ -- नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से किल, तान्युत्सृज्य मां शरणं व्रजेति सभायां जगाद ॥ २ ॥ तेऽथ यातवति यादवसैनिकस्त्वं यातो ददर्शिथ वपुः किल पौण्डकीयम् । तापेन वक्षसि कृताङ्मनल्पमूल्य- श्री कौस्तुभं मकरकुण्डलपीतचेलम् ॥ ३ ॥ दूत इति । यादवाः सैनिका यस्य स त्वं काशी यातः पौण्डकीयं वपुर्द- दारींथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साङ्को यस्य | अनल्पमूल्य: अनल्पेन मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३ ॥ कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । भोगको क.ग. पाठ.. ३. इदं पदं क. ग. पुस्तकबोर्न दृश्यते ।