पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाणं नानायुधोनं पुनरभिपतितं दर्पदोषाद् वितन्वन् निर्लनाशेषदोषं सपाद बुबुधुषा शङ्करेणोपगीत: तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्त्रियं तं 1 मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्धः सहोषः ॥ ८ ॥ वाणमिति | दर्प एक एव दोषः तस्माद् निर्लनाः छिन्ना: अशेषा दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुधुषा आत्मानं विष्णुमप्येकमधिजम्मुषा उपगीतः तः स्तुतः | तस्य श्रीशङ्करस्य वाचा । उभयतो विष्णुशङ्करयोरपि निर्भयं तत्प्रियं शिवभक्तम् । तद्वृत्तमान: बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८ ॥ मुहुस्तावच्छकं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ९ ॥ मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहाढौं शक्रमजयः । तत् तस्मात् ते तब अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा । अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९ ॥ द्विजरुषा कुकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन पवनेश्वर! पाहि माम् ॥ १०॥ द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुपा तत्कार्येण शापेन निरुद- फकूपस्थं कृकलासवपुर्धरं नृगतृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन्। न विद्यते उत्तमो य (स्मादि ? स्या इ) त्यनुत्तमाम् | नृगस्य ब्राह्मणगवापहरणेन कुकलासत्वा - पत्तेस्तहानमाहात्म्येन स्वर्गमाप्तेश्च नुगमुखेन निवेदनपुरस्सरमुपदिशन् ॥ १० ॥ इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापभोक्षवर्णनं त्र अशीतितमं दशकम् ।