पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० [ स्कन्ध - १० नारायणीये पुरीपाल: शैलमियदुहितनाथोऽस्य भगवान् समं भूतत्रातैर्यदुबलमशङ्कं निरुरुधे । महाप्राणो वाणो झटिति युयुधानेन युयुधे गुहः प्रधुम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ५ ॥ पुरीपाल इति । अस्य बाणस्य पुरीपाल: शैलस्य हिमवतः प्रियदुहितुः पार्वत्याः नाथो भगवान् | महाप्राण: महाबलः । त्वमपि पुरहन्त्रा श्रीशङ्करेण सह जघटिषे अयुध्यथाः ॥ ५ ॥ निरुद्धाशेपास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः | परास्कन्दत् स्कन्दः कुसुमशरबाणैश्च सचिव: स कुम्भाण्डो भाण्ड नवमिव बलेनाशु विभिदे || ६॥ 1 निरुद्धेति । निरुद्धानि प्रत्यत्रै: शमितानि अशेषास्त्राणि यस्य | तव मोहनास्त्रेण मुमुहुषि मोहं गते च सति । द्रुताः पलायिताः । प्रमथिताः पीडिताः । कुसुमारस्य प्रद्युम्नस्य बाणैः 1: स्कन्दः परास्कन्दत् प्रतिनिवृत्तः । बाणस्य सचिवः कुम्भाण्डो नवं जलपूर्ण मृण्मयं भाण्डमिव बिभिदे भिन्नः ॥ ६ ॥ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ७ ॥ चापानामिति । बाणे व्यर्थे विरथे याते ज्वरपतिर्माहेश्वरंज्वरः त्वज्ज्वरेण समेतो युध्यन् अशनैर्झटिति अज्वरि सन्तप्तोऽभूत् । अथ माहेश्वरो ज्वरः ज्ञानी त्वां स्तुत्वा त्वत्प्रसादात् तव चरितजुषां विज्वरं ज्वराभवं दत्त्वानुगृह्य स माहेश्वरो ज्वरोऽगात् । यद्वा सज्वरः सन्तापयुक्तः । यतोऽन्तर्हदि ज्ञानवन्तोऽपि बहुतमसा तमोगुणाधिक्येन रौद्रचेष्टाः क्रूरकर्माणो हि रौद्राः रुद्रपार्षदाः ॥ ७ ॥ १. 'रस्त्व' क. ग. पाठ: