पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रद्युम्न इति । तव कला विष्ण्वंशः तं शम्बरं हत्वा रत्या भार्यया सह निजपुरमाप्तः प्रधुम्नो रुक्मिकन्यां रुक्मवतीम् अवहद् उपये मे । तत्रानिरुद्धोद्धाहे द्यूतवैरात् छलेन बलभद्रे पराजयमारोप्याधिक्षेपाद् मुसलिना रुक्मी न्यबधि हतः। अपिशब्देन कालिङ्गुस्य दन्ताः पाटिता इत्यप्युक्तम् || १ || वाणस्य सा वलिसुतस्य सहस्रबाहो- महेश्वरस्य महिता दुहिता किलोषा | स्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्व स्वप्मेऽनुभूय भगवन् ! विरहातुराभूत् || २ || बाणस्येति | माहेश्वरस्य शिवभक्तस्य | महिता लाया ॥ २ ॥ योगिन्यतीव कुशला खड चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् | तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगवलतो भवतो निकेतात् || ३ || योगीति । योगिनी अणिमाद्यष्ठैश्वर्यवती अतीव कुशला चित्रकर्मा- दिकलाकौशलवती च । तत्र विलिखितेषु तथा विदितम् अयमेव खमदृष्ट इति, अनिरुद्धं भवतो निकेताद् द्वारकायाः आनेष्ट आनीतवती ॥ ३ ॥ कन्यापुरे दयितया सुखमारमन्तं चैनं कथश्चन ववन्धुपि शर्वबन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषै- स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ४ ॥ कन्यापुर इति । दयितया उषया समम् आरमन्तं क्रीडन्तम् । एनम् अनि- रुद्धं शर्वबन्धी बाणे बन्धुषि नागपाशेन बद्धं कुर्वति सति श्रीनारदोक्तात् तद्- दन्ताद् अनिरुद्धबन्धनरूपाद् वृत्तान्ताद् दुरन्तोऽनवधी रोषो येषां तैर्यदुभिः सह त्वं तस्य बाणस्य शोणितौख्यं नगरं न्यरुन्धाः आवृणोः ॥ ४ ॥ १. 'तपुराख्यं' क, ख. पाठः,