पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ नारायणीय भौमापाहतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया सुखीषु दत्तहिया | हृत्वा कल्पतरु रुषाभिपतितं जित्वेन्द्रमभ्यागम- स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ९॥ [स्कन्धः -- १० भौमापाहृतकुण्डलामति । भौमेनेन्द्रादपहृतं कुण्डलम् अदितेस्तन्मात्रे दातुम् | स्त्रीषु शच्युर्वश्यादिषु रूपातिशयेन दत्ता हार्यया तथा दयितया समं सह् महितः पूजितः । तत् पारिजातहरणेनेन्द्रस्य परिभवजननं श्रीमददोष ईडशो यथेन्द्रस्येति व्याख्यातुं प्रकाशयितुमेवाकृथाः कृतवान् ॥ ९ ॥ कल्प सत्यभामाभवनभुवि सृजन व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः । आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश! ॥ १०॥ कल्पनुमिति | सत्यभामाया भवनभुवि गृहोद्याने सृजन् स्थापयन् प्रत्य- गारं विहितबहुवपुः भवनं प्रति भवनं प्रति रूपभेदेन स्थित्वा ह्यष्टसाहसयोषाः युगपत् स्वीकृत्य परिणीय आश्चर्यात् तदाश्चर्यं श्रुत्वा नारदेनालोकिता विविधा गतयो गार्हस्थ्यभेदा यस्य ॥ १० ॥ इति सुभद्राहरणवर्णनं श्रीकृष्णस्य महिष्यन्तरपरिग्रहवर्णनं नरकासुरवधादिवर्णनं च एकाशीतितमं दशकम् । प्रधुम्नो रॉक्मिणेयः स खलु तब कला शम्बरेणाहृतस्तं इत्वा रत्या सहातो निजपुरमहद् रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ १ ॥