पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्थाद्यैरिति । पार्थाचैः भीमदुर्योधनमागधादिभिर प्यकृतलवनम् अशक्य- च्छेदनं तोयमात्रे केवलं जले प्रतिबिम्वरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् । अवृथाः इतवान् ॥ ५ ॥ स्मृतायातं पक्षिवरमधिरूढस्त्वमगमो वहनके भामामुपवनमिवारातिनगरम् । विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसैः पुरं तावत् प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥ ६ ॥ स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम् । अरातेभमस्य नगरम् । दुर्गाणि गिरिशस्खजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां पृतनानां शोणितरसै: रुधिरद्रवैः प्राग्ज्योतिषाध्यं पुरं शोणितं रक्तवर्णमकु- रुथाः ॥ ६ ॥ सुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मञ्जु भवता । चतुर्दन्तैर्दन्तावलपतिभिरिन्धा रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णनरकम् ॥ ७ ॥ सुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् । सः मुरः भवता चक्रेग प्रदलितशिराच कृतः । इन्धाने प्रवृद्धे समरे नरकं भौमं तीर्णनरकं संसारोतीर्णम् ॥ ७ ॥ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजं चैकं दवा प्रजिधयिथ नागान् निजपुरीम् | खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशि च विपुलम् ॥ ८ ॥ स्तुत इति । खलेन भौमेन आवद्धानां स्त्रीणां षोडशसहस्त्राणि विपुल धनराशि चतुर्दन्तान् नागानपि च निजपुरी प्रजिघथि माहिणोः ॥ ८ ॥ १. 'लज' क, पाठः,