पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ नारायणीये तत्र क्रुद्धं बलमनुनयन प्रत्यगास्तेन सार्ध 'शक्रमस्थं मियससमुदे सत्यभामासहायः ॥ २ ॥ [स्कन्धः - १० भद्रामिति । भद्रां सुभद्रां भवतोऽवरजां कनीयसीम् | कुहनामस्करी कपटयतिः । तत्र सुभद्राहरणे । तेन अर्जुनेन सार्धम् । प्रत्यगाः गतवान् ॥ २ ॥ तत्र क्रीडपि च यमुनाकुलदृष्टां गृहीत्वा तां कालिन्दी नगरमगम: खाण्डवप्रीणिताग्निः । भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं राज्ञां मध्ये सपदि जषे मित्रविन्दामवन्तीम् ॥ ३ ॥ तत्रेति । तत्र शक्रप्रस्थे क्रीडन् अर्जुनेन सह मृगयां गच्छन् तां सूर्यपुत्रीं कालिन्दीम् । तदैव खाण्डवेन प्रीणितस्तर्पितोऽग्निर्येन | आतृभ्यां विन्दानुविन्दा- भ्यां तद्वरणप्रतिषेधात् त्रस्तां राज्ञां मध्ये स्वयंवरे ज(?) हृतवान् || ३ || सत्यां गत्वा पुनरुदवहो नग्नजिनन्दनां तां बद्ध्वा सप्तापि च द्वषवरान् सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव! सन्तर्दनाद्या- स्तत्सोदय वरद ! भवतः सापि पैतृष्वसेयी ॥ ४ ॥ सत्यामिति । पुनर्नभजिन्नृपते राजधानीं गत्वा आत्मानं सप्तधा कृत्वा सप्त वृषवरान् बद्ध्वा तन्नन्दनां सत्याम् उदवहः | तत्सोदय सन्तर्दनादिसोदरीं श्रुतकीर्तेः सुतां मद्रां ते तत्सोदराः ते तुभ्यं प्रददुः । पैतृष्वसेयी वसुदेवसोदर्याः पुत्रीं ॥ ४ ॥ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् | अष्टावेवं तव समभवन् वल्लभारतत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ५ ॥ १. 'य' घ. ङे. च. पाठः २. 'धूम' घ. पाठः + इकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।