पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजित शतधनुर्मणिमाजहार ॥ ७ ॥ बीडाकुलामिति । जतुगेहे कौन्तेया दग्बा इति कथा लोकवादः, तया त्वयि कुरून् हस्तिनपुरं प्रयाते सति ही कष्टं गान्दिनेयस्य अक्रूरम्य कृतवर्म- णश्च प्रतिश्रुतम्यादातारं जहीति गिरा शतधन्वा सत्राजित निपात्य हत्वा मणिमा- जहार ॥ ७ ॥ शोकात् कुरूनुपगतामवलोक्य कान्तां हत्व द्रुतं शतधनुं समहर्षयस्ताम् । रने सशङ्क इव मैथिलगेहभेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ८ ॥ [स्कन्धः - १० रै शोकादिति । तो सत्यभामां पितृहन्तुर्वधेन समहर्षयः प्रसादितवान् | रले मणौ सशक इव मणिहेतोः शतधन्वानं निहतवानिति ख्यापयितुं तवाससि माणमन्विष्टबानित्यर्थः।‘त्वं पुरीं गत्वा मणिमन्विच्छे 'ति कृष्णमुक्त्वा रामो मैथि- लस्य गेहमेत्य धार्तराष्ट्रं सुयोधनं गदां समशिशिक्षत ॥ ८ ॥ नन्बक्रूरो भक्तः कथं सत्यभापायाः पितरं हन्तुं शतधन्वानं नियुक्तवानिया- शङ्कास्य भक्तम्मन्यतागर्वा पनयनाय कुबुद्धिस्त्वयैवोत्पादितेत्या अक्रूर इति द्वाभ्याम्- अक्रूर एष भगवन् ! भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनातवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ ९ ॥ अक्रूर इति । अक्रूरतः शतधन्वना श्रीकृष्णभीत्या पलायने सति न्यस्तं मणि स्वमनाहृतवान् | तस्याक्रूरस्य भूतिम् ऐश्वर्यम् उपधातुम् उत्पादयितुमिति ब्रुवन्ति । अभिज्ञा इति शेषः ॥ ९ ॥ १ वा ॥ क. पाठः, २. 'ति । मणि' क. पाठ: