पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवन्तमिति । अतिवयाः वृद्धः अत एव भवन्तं श्रीकृष्णात्मनावतीर्णम् अवितर्कयन् अनिरूपयन् मुकुन्दो विष्णुः शरणं यस्य तं मां रोद्धुम् इह जग- ति कुः शक्तः विभो! हरे! रघुपते! जय जय खोत्कर्षमाविष्कुवित्यालपन मन्त्र- मिव पुनः पुनर्जन् चरन् प्रदक्षिणं कुर्वन्निव द्वन्द्वयुद्धमार्गे सञ्चरन् मुष्टिभिः कुसुमैरिव तव स्वरूामिनः समर्चनं सम्यक् संरम्भात्मकभक्ति पुरस्सरं पूजां व्याधित प्रसादयामास, यतोऽयं भक्तचूडामणिः त्वत्प्रीत्यै कृतसकलकर्मा ॥ ४ ॥ बुढाथ तेन दत्तां नवरमणी वरमणीं च परिगृहन् । अनुगृहन्नमुमागाः सपदि च सत्राजिते मणि मादाः ॥ ५ ॥ बुद्ध्वेति । अथ बुद्ध्वा त्वन्मुष्टिपातेन सञ्जातव्यथतया त्वां पुराणपुरुष ज्ञात्वा स्वापराधमार्जनाय तेन जाम्बवता दत्तां नवाम् अप्रौढां रमणी जाम्बवतीं वरमण स्यमन्तकं च परिगृह्णन् अनुं भक्तम् अनुगृह्णन् पाणिपद्मेन प्रत्यङ्गमभिमृ- श्यापनीताखिलपरितापं कुर्वन् द्वारकामागाः | सपदि आगमनानन्तरमेव सत्राजि- ते मणि तत्प्राप्याख्यानपूर्वकं प्रादाः दत्तवान् ॥ ५ ॥ · तदनु स खलु ब्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्य समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिं गहनाशयः ॥ ६ ॥ तदन्विति । स खलु सत्राजित् सत्यमामाख्यं स्त्रीरत्वं रत्नमपि श्रीकृष्णाय दत्त्वा आत्मापराधं प्रमाज्मीति शुभा धीरस्यास्तीति धीमान् गिरैव, न क्रियया पराय शतधन्वने अर्पितां प्रतिम मणिना सह तुभ्यम् अदित दत्तवान् | भवा- नपि मणेर्लभ्यं स्वर्णभाराष्टकं समेत्य दातव्यमिति समयपूर्वकं प्राप्य तस्य सत्रा- जित एव मणिमदात् । किमर्थं गहनाशयः भूयोऽप्यस्य मणिहेतुकामापदं विधातुं वान्यत् किञ्चिद्वेति देवैरप्यविदित आशयोऽभिप्रायो यस्य |॥ ६ ॥ व्रीडाकुला रमयति त्वाय सत्यभामा कौन्तेयदाहकथयाथ कुरून् मयाते ।