पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ नारायणीये सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमन्तकमणि भगवायाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विषोदुम् ॥ १ ॥ A सत्राजित इति । तस्य स्यमन्तकयाचनस्य कारणं जाम्बवदनुग्रहतरसुता- वाप्तिसत्यभामादातृप्रतिग्रहीतृसत्राजिच्छतधन्यवधाकुरप्रीत्यापादनादिरूपं बहुविध मम भाति प्रतिभाति । नूनम् एवं तु निश्चिनोमि । तस्य सत्राजित आत्मजां त्वयि रतां सत्यभामां छलतो व्याजेन विवोढुं विवाहार्थम् | खापराधभीरुणानि- च्छतापि स्वसुतां दापयितुमित्यर्थः ॥ १ ॥ [स्कन्धः- १० अदतं तं तुभ्यं मणिवरमनेनाल्पमनसा मसेनस्तद्भ्राता गलभुवि वहन् माप मृगयाम् | अहन्नेनं सिंहो मणिमहसि यांसभ्रमवशात् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ २ ॥ अदत्तमिति । कपीन्द्रो जाम्बवान् ॥ २ ॥ शशंसुः सत्राजिगिरमनु जनास्त्वां मणिहर जनानां पीयूष भवति गुणिनां दोषकणिका | ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ३ ॥ शशंसुरिति । कृष्णो मे भ्रातरं हत्वा मणि हृतवानिति सत्राजिगिर- मनु तच्छ्रुत्वा जनाः प्राङ्मणियाचनात् तब मणिजिवृक्षामप्युत्पश्यन्तस्त्वां मणिहरं शशंसुः । गुणिनां दोषकणिका दोषलेशोऽपि जनानां पीयूषवदास्वादनीया भवति हि । हरिं सिंहमपि दृष्ट्वा कर्जाम्बयतो गुहाम् || ३ || भवन्तमवितर्कयत्रतिवयाः स्वयं जाम्बवान्, मुकुन्दशरणं हि मां क इह रोमित्यालपन् । विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि- औरंस्तव समर्चनं व्यक्ति भक्तचूडामणिः ॥ ४ ॥ १. 'श्चिरं त' ग, घ, ङ, पाठः,