पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क नु गतः पशुपाल इति कुधा कृतरणा यदुभिश्च जिता नृपाः न तु भवानुदयाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ८ ॥ क नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः | तैः पिशुनकैः दुर्जभैः भवान् न तूदचाल्यत, तानू भवान् नाजीगणदित्यर्थः । शुनकैः श्वभिः केसरीव ॥ ८ ॥ " तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निवध्य विरूपयन् | हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ९ ॥ तदन्विति | रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमयाः प्राप्तवान् ॥ ९ ॥ नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीम् ||१०|| नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥ विविधनर्मभिरेवमहर्निश प्रमदमाकलयन् पुनरेकदा । ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥ ११ ॥ विविधनर्मभिरिति । प्रमदं हर्षमाकलयन् जनयन् | बऋगिरा बक्रो- तथा ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं मयनिमाम् । अयि मुकुन्द ! भवचरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ १२ ॥ तदधिकैरिति । प्रगदतां स्तुवतां गदतान्ति रोगपीडाम् अपाकुरु ॥१२॥ इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशर्क सडिकम् । १. 'हि' घ, ङ, पाठः. २. 'सुखय' ग, घ ङ. च. पाठः,