पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनेति । नृपसुतस्य रुक्मिणः चेष्टितं शिशुपालाय कन्यां साधयितुमुद्यमं रुक्मिण्याः संदृशं भवद्रपुश्चावेक्ष्य सरुदितैरूदितैः प्रलापैः ॥ २ ॥ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा | निरगमद् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ ३ ॥ तदन्विति | स्वपुरतः स्वस्थ पुरात् । पुरतः पुरोभागे ॥ ३ ॥ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तब केवलम् ॥ ४ ॥ कुलेति । कुलवधूभिः मङ्गलस्लीभिः सहोपेत्य तत्पदपकजे गिरिसुतापदप- बजे निपतिता केवलं तव पतितां श्रीकृष्णो मे पतिर्भूयादिति मुहुरयाचत ॥ ४ ॥ समवलोक्य कुतूहलस ड्कुले नृषकुले निभृत लाय च स्थिते । नृपसुता निरगाद् गिरिजालयात सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ ५ ॥ समिति | त्वयि च निभृतं स्थिते तां हर्तुं रन्धं प्रतीक्ष्य गूढं स्थिते सति । रुच्या रञ्जितानि दिङ्मुखानि यया ॥ ५ ॥ भुवनमोहनरूपरूचा तदा विवशिताखिलराजकदम्बया | त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया पदयाञ्चकृषे मनाक् ॥ ६ ॥ भुवनेति । विवशितः परवशीकृत: अखिलराजकदम्बो यया तया प्रमदया रुक्मिण्या त्वमपि मनाग ईषद् मदयाञ्चकृषे सञ्जातमदः कृतः ॥ ६ ॥ क नु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाया भुवि ततो विततो निनदो द्विषाम् ॥ ७॥ क नु गमिष्यसीति | अपादृथाः अपहृतवान् ॥ ७॥ १. 'ते ष' क. पाठ:.