पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरनो भृशं सुहृदयं हृदयं तव कातरम् ॥ ४॥ • अशरणामिति । अयं द्विजः इति सुतनो रुक्मिण्या गिरा तव हृदयं भृशं कातरं प्रियतमाप्राणापायभीरु अतनोत् ॥ ८ ॥ अकथयस्त्वमथैनमये सखे ! वदशिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ९ ॥ अकथ्य इति । तदधिका रुक्मिण्या अधिका | तत् तस्माद् अयि सखे ! नृपसमक्षं पश्यतां नृपाणां तां दयितां हरामि ॥ ९ ॥ प्रमुदितेन च तेन समं तदा स्थगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ||१०|| प्रमुदितेनेति । त्वद्वचनश्रवणेन प्रमुदितेन तेन द्विजेन समं सह रथे गतः लघु शीघ्रम् एयिवान् गतवान् भवान् | तनुतां न्यूनतां वितनुतां कुरुताम् ॥१०॥ इति द्वारकावासवर्णनं रुक्मिणीपरिणये भगवतः कुण्डिनपुरप्राप्तिवर्णनं च अष्टसप्ततितमं दशकम् । बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा गणनाम सा ॥ १ ॥ बलेति । कलहशङ्किना बलसमेतेन सेनासहितेन श्रीवलभद्रेणानुगतः भीष्मकेण रुक्मिण्या जनकेन मानितः पूजितः । अगाहत प्रविवेश | त्वदुपागमवा- दिनं प्राप्तस्त्वइयित्त इति निवेदयन्तम् | धृतरसा सजातकौतुका तरसा प्रणनाम, नान्यत् किञ्चिद् दत्तवती । सा श्रियभूता नमस्कारेण स्वात्मानं समग्रां श्रियमर्पितवती ॥ १ ॥ भुवनकान्तमवेक्ष्य भवद्रपुर्नृपसुतस्य निशम्य व चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ २ ॥