पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ नारायणीये [स्कन्धः-- १० अथ विदर्भसुतां खल रुक्मिणी यणायनीं त्वयि देव! सहोदरः । स्वयमदित्सत चेदिमहीजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ३ ॥ अथेति । सहोदरो रुक्मी स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशु- पालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन, तर्मसाधुं चेदिनृपम् उपाश्रयन् ॥ ३ ॥ चिरवृतमणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला | तब निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ ४ ॥ चिरेति । कदनङ्गेन विनिर्मितं स्वस्य कदनं पीडाम् ॥ ४ ॥ द्विजसुतोऽपि च तूर्णमुपाययौ तब पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ५ ॥ द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्रवेशम् | भवतापं संसारदुःखं हरतीति भवतापहृत् ॥ ५ ॥ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । वयि समुत्सुकया निजवीरतारहितया हि तया महितोऽस्म्यहम् ॥ ६॥ स चेति । कुण्डिने विदर्भपुरे | तयाः प्रहितोऽस्मि ॥ ६ ॥ रुक्मिण्या : सन्देशमाह द्वाभ्यां - तब हतास्मि पुरैव गुणैरहं हरति मां किल चेदिनुपोऽधुना । अयि कृपालय! पालय मामिति मजगढ़े जगदेकते! तया ॥ ७ ॥ तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंव- रप्रसङ्गात् प्रागेव | अधुना स्वयंबरे चेदिनृपः शिशुपाल: मां त्वदूद्धृतमनसं हरति हर्तुमुत्सहते फिल | अयि कुपालय! भक्तवत्सल ! मां पालय शरीरमपि हृत्वा मनसा संयोजयेति तथा प्रजगदे ॥ ७ ॥ १. 'ध्यापम् ।' क.ग. पाठः,