पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदनु मथुरां गत्वा हत्वा चमूं यवनाहूतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दर्षायास्मै मदाय पलायितो जलधिनगरीं यातो वातालयेश्वर! पाहि माम् ॥ १२ ॥ तदन्विति । द्वारकां जन् सर्गे मगधपतिना जरासन्धेन पुरा यथा, तथा निवारितः चरमविजयम् अष्टादशसङ्ग्रामजयं दर्पाय अहङ्कारमुत्पादयितुं प्रदाय पलायितो धावन् प्रवर्षणाख्यं गिरिमारुह्य तस्मादुत्पत्य भुवि पतित्वा जरा- सन्धेनालक्षितो जलधिनगरी द्वारकां यातः ॥ १२ ॥ इति सैरन्ध्रचामुप श्लोकोत्पत्तिवर्णनं जरासन्वादियुद्धवर्णनं मुचुकुन्दानुग्रहवर्णनं च सप्तसप्ततितमं दशकं सद्विकम् । त्रिदिववर्धकिवर्धितकौशलं त्रिदशदचसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ १ ॥ २ त्रिदिवेति । त्रिदिववर्धकिना विश्वकर्मणा वर्धितानि सर्वप्रयत्लेन कृतानि कौशलानि यत्र । त्रिदशैर्लोकपालैः दत्ताः प्रत्यर्पिता: समस्ता विभूतयः सुधर्मापा- रिजाताद्याः सन्त्यस्मिन्निति तथा । नवपुरं द्वारकां वपुरञ्चितेन रोचिषा देहकान्त्या त्वमभूषयः ॥ १ ॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपुषः समुदितैर्मुदितैः सह यादवैः ॥ २ ॥ ददुषीति | रेवतो नाम राजा रेवत्याख्यामात्मतनयामादाय सत्यलोकं गत्वा ब्रह्माणं पृष्टवान् 'एनां कस्मै प्रदास्यामी'ति । 'त्वत्समानकालिका राजानः सम्प्रत्यदर्शनं गताः । किन्तु त्वयि भूमिगते सति रामकृष्णाववतीर्णौ भविष्यतः । तयो रामायैनां देही’ति विधेः शासनात् । समुदितैः सहितैः ॥ २ ॥ १. 'दशवर्ध' क. ग. पाठ: २. 'दशवर्ध' क. ग. पाठ: