पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राथ योगबलतः स्वजनाननैषीः ॥ ९ ॥ अष्टादश इति । अस्याष्टादशे समरे समुपेयुषि ऋआगामिनेि सति त्वं यवनानां म्लेच्छानां त्रिकोट्या युतं श्रवनं पुरतो दृष्ट्वा त्वष्टा विश्वकर्मणा पयोधिमध्ये आशु द्वारवत्याख्यं पुरं विधाप्य कारयित्वा योगबलतः योगैश्वर्येण तत्र वजनान- नैषीः ॥ ९ ॥ पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशनानुयातो वधसुकृतविहीनेन शैले न्यलेषीः । सुप्तेना चाहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥१०॥ पद्भ्यामिति । त्वया वधः सुकृतैकलभ्यः तद्विहीनेन । शैले तद्गुहायां देवदत्तया निद्रया चिरं सुप्तेन यवनेन कृष्णोऽयमिति अन्त्या अङ्मचाहतेन मुचुकुन्देनास्मिन् यवने भस्मीकृते तस्मै मुचुकुन्दाय तस्थिषे आत्मानं प्रकाश्य स्थितवानसि ॥ १० ॥ ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्ति धुतसकलमलं मोक्षमण्याशु दत्त्वा कार्य हिंसाविशुद्धयै तप इति च तदा मात्थ लोकप्रतीत्यै ॥ ११॥ ऐक्ष्वाक इति । ऐक्ष्वाक: इक्ष्वाकुवंशजः अखिलनृपसुखे राज्यभोगे विर- क्तः | आशु समनन्तरब्राह्मणजन्मान्ते धुतसकलमलम् अज्ञानकल्पितसंसारनिवृत्ति रूपं मोक्षं तावत्कालपर्यन्तं मुक्तेस्तुल्यां निरतिशयसुखरूपां प्रेमलक्षणां भक्तिमपि दत्त्वा क्षात्रधर्मेण कृताया हिंसाया विशुद्ध्यै तपः कार्यमिति च तदा प्रात्थ अब्रवीः । यद्यपि त्वदर्शनादेव कृतकृत्यो मुचुकुन्दः, तथापि लोकप्रतीत्यै क्षत्रधर्म लोकान् ग्राहयितुमिदमात्थेत्यर्थः ॥ ११ ॥ १. 'न् ॥' ख. पाठः

  • आर्थिकार्थकथन मिद्रम् ।

3