पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासन्धे सन्थत्यनवधिरुपान्थेऽथ मथुराम् । रथाद्यैर्द्यौलब्धैः कतिपयवलस्त्वं बलयुत- खयोविंशत्यक्षौहिणि तदुपनीतं समयाः ॥ ६ ॥ विघातादिति । जरासन्धस्य जामाता कंसः, तत्पुत्र्योरस्तिप्रास्त्योः पति- त्वात्, तस्य भोजनृपतेर्वधाद् अनबधिरुषान्धे जरासन्धे मथुरां रुन्धति सति द्योः स्वर्गालब्धैर्मातलिनानीतै रथाद्यैः सपरिकरें: कतिपयबल: परिमितसेनासहितः तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहथाः सञ्जहर्थ || ६ || बद्धं बलादथ वलेन वलोत्तर त्वं भूयो बलोधमरसेन मुमोचिथैनम् । निश्शेषदिग्जय समाहत विश्वसैन्यात् कोऽन्यस्ततो हि वलपौरुषवांस्तदानीम् ॥ ७ ॥ बद्धमिति । अथ चलेन वलाइ बद्धं बलेन उत्तरम् उत्कृष्टं भूयो बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाइ --- निश्शेषदिग्जये समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७ ॥ भग्नः स लग्ग्रहृदयोऽपि नृपैः मणुन्नो युद्धं त्वया व्यक्ति षोडशकृत्व एवम् । अक्षौहिणी: शिव शिवास्य जघन्थ विष्णो! सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ८ ॥ भग्न इति | से जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८ ॥ अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या | १. 'विधाताद्वधा' क. ग. पाठ: ३. इदं क. ग. पुस्तकयो यते,