पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपगत इति । प्रमदसम्भ्रमेण हर्षातिशयजनित सौजन्यव्यापारत्वरया कम्प्रौ कम्पनशीली पयोधरौ यस्याः | विविधमाननं संमाननम् आदधतीं तो सुखं रम- याञ्चषे ॥ २ ॥ पृष्टा वरं पुनरसावणोद् वराकी भूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेद् बुध एव कार्य सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥ ३ ॥ पृष्टेति । यदिच्छसि, तद् वृण्विति त्वया पुनः प्रस्थाने बरं पृष्टी असौ सैरन्ध्री भूयस्त्वया सुरतमेवावृणोद्, न मोक्षम् त्वत्सायुज्यसामीप्यादिरूपम् । तत्र बुधः सायुज्याख्यमोक्षरसाभिज्ञ एव सायुज्यमस्त्विति वदेत् प्रार्थयेत् । एषा तु वरा- की निर्विषयमोक्षरसानभिज्ञेत्येतत् कामं भवतु | अनिशं सामीप्यमस्त्वित्यपि किं नाब्रवीत् । त्वत्सामीप्यसुखं तु तथा कञ्चित् कालमनुभूतमेव | तस्मात् सर्वमीश्वरे - च्छापरतन्त्रमिति वेदितव्यम् || ३ || ततो भवान् देव! निशानु कासुचि मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततन्त्रविद् बभौ ॥ ४ ॥ तत इति । उपश्लोक इति श्रुतं विश्रुतं सुतम् अदाद् उत्पादयामास । सः नारदात् सात्त्वततन्त्रं पाञ्चरात्राद्यागमं वेतीति तथा ॥ ४ ॥ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेय- वृत्तं विवेदिय तथा धृतराष्ट्रचेष्टाम् ॥ ५ ॥ अक्रूरेति । एनम् अक्रूरं विसृज्य विपिनाद् आगतानां पाण्डवेयानां वृत्त तथा धृतराष्ट्रचेष्टां च विवेदिथ ॥ ५ ॥ १. 'टा सा सै'. क. पाठः, २. 'स्विति किं क. पाठः.