पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं भक्तिः सकलभुवने नेक्षिता ने श्रुतावा किं शाखौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । .इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ ११ ॥ एवमिति । एवं गोषिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहि- तानामपि भक्तिदर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमो- ऽस्तु । इति ' एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्रपुरस्सरं पुनः पुनस्ता नम- स्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राप्तं तं त्यक्तभक्ताभिमानमुद्धवं दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ । इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् । सैरन्ध्रयास्तदतु चिरं स्मरातुराया यातोऽभू: सललितमुद्धवेन सार्धम् । आवास खदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ १ ॥ सैरन्ध्रया इति । अद्वैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभव- संभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्रया अनुलेपदाव्या आवास सललितं ललितवेषभूषण सहायसम्पत्सहितं यथा भवति तथा यातोऽभूः | त्वदुपगमोत्सवं त्वत्सम कौतुकम् ॥ १ ॥ उपगते त्वाय पूर्णमनोरथां ममदसम्भ्रमकम्पपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयाञ्चकृषे सुखम् ॥ २ ॥ १. 'वा' क. घं. पीठ:. २. 'क्यतिशयद' क. ग. पाठ.. ३. 'सवन्तं स्य' क. पाठा