पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमुद्धवः स्त्रीणामपीश्वरे स्वातिशय प्रेमलक्षणभक्तिदर्शनात् सक्तभक्तंमन्यभा- वस्ताः प्रत्येकमाश्वासयामास । तत्र प्रधानभूतायां राधायोमाश्वासनप्रकारमाह - राधाया में प्रियतममिदं मत्मियैवं ब्रवीति त्वं किं मौनं कलयास सखे ! मानिनी मत्प्रियेव । इत्याद्येव प्रवदति सखि! त्वप्रियो निर्जने मा मित्थवादररमयदयं त्वत्मिामुपलक्षम् ॥ ९ ॥ राधाया इति । हे सखि ! राधे! त्वत्प्रियः श्रीकृष्णः निर्जने मामित्यादि त्वत्सम्बन्धिवचनमेव प्रवदति । कथं, हे सखे| उद्धव! मे राधाया इदं प्रियतमं, मझिया सैवं ब्रवीति, किं त्वं मानिनी मप्रियेव मौनं कलयास घरस इति । जनसंसदि तु तस्य गम्भीरचेतस्तया सन्नपि त्वद्विरहखेदो ज्ञातुमशक्यः । अयम् उद्धव इत्थंवादस्त्वत्प्रेम सूचकैर्वचनैरेव त्वत्रियां राधामरमयत् ॥ ९ ॥ सन्देशमाह - एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् विश्लेषेsपि स्मरणदृढतासम्भवान्मास्तु खेदः । ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग- स्तुल्यो वः स्यादिति तवं गिरा सोऽकरोन्भिर्व्यथास्ताः ॥१०॥ एण्यामीति । अहं द्राग् झटिति एष्यामि । अनुपगमनं भवत्सन्निधावनागमनं केवलं मम कार्यभारादेव, न प्रेममान्द्यात् । किञ्च भवतीनां महिश्लेषो महते फलाय, मत्स्मरणस्य दृढतासम्भवात् । तस्माद् विश्लेषेविषयः खेदो मास्तु | स्मरणदृढतायाः समाध्यपरपर्यायायाः फलमाह ब्रह्मानन्द इति । ब्रह्मरूपस्य- मम स्मरणदृढतायां सत्यां नचिराद ब्रह्मानन्दे मिलति सति वो भवतीनां मत्सङ्ग- मो मद्वियोगश्च तुल्य: स्यात् । विरहेऽपि वः सर्वात्मना न मद्विरहः, भवती- नामप्यन्तरन्तर्यामिरूपेण ममैवावस्थानादिति भावः । इति या तव गीः सन्देशः, तथा स उद्धवस्ता निर्व्यथा अकरोत् ॥ १० ॥ Serband १. 'या' क. ग. पाठ:. २. 'या आ' क. ग. पाठः ३. 'राधैवं' क. पाठ:. ४. 'सुकर: । ' क. ग. पाठ. ७ 'घेऽपि वः खे' क. ग. पाठः,