पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहको कृपट! तनोन्मा- दानाम् अननुसंहितपूर्वापराणां बचसां का वा विस्मरेत् ॥ ५ ॥ 'रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्न श्रमजलकणं लोभनीयं त्वेदङ्गम् । कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति मेमोन्मादाद् भुवनमदन! त्वत्प्रयास्त्वां विलेषुः ॥ ६॥ रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदनं हे कारु- ण्याब्धे ! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन | सर्वेषां सर्वदापि सर्वकामोन्मादमद! ॥ ६ ॥ एवम्मायैर्विवशवचनैराकुला गोपिकास्ता- स्त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि- स्तत्तदातोसरसमनयत् कानिचिद् वासराणि ॥ ७॥ एवमिति । अथोद्धवो विज्ञानगर्भैस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत् । त्वन्मयीभिः त्वाच्चन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति तथौ कानिचिद् बासराण्यनयत् ॥ ७ ॥ त्वत्मोद्वानैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तेव प्रसरति मिथः सैव चोत्स्वापलापाः । चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् || ८ || त्वदिति । उत्खापलापा: स्वप्नवचनानि सैव त्वद्वातैव । चेष्टाः व्या- पाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वे त्वन्मयं दृष्ट्वा अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽमूदित्यर्थः ॥ ८ ॥ 'का वि' क. पाठः. २. 'त' घ. ड. च. पाठः, ३. 'धान' क, पाठ,