पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रातर्दृड्डा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः .. श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ३ ॥ त्वादिति । त्वन्माहात्म्यस्य प्रथिमा विस्तार तत्पिशुनं तत्सूचकं गोकुलं तत्र नन्दगेहं प्राप्य सायं सन्ध्यायाम् । अतः स्वस्खगेहस्था मिर्गोपभिरुद्धवागमनं न विदितम् । अतः केवलं नन्दं यशोदामेव बहु अतिशयेन रमयामास । प्रातस्त्व- दागमं शङ्किताः ॥ ३ ॥ . दृष्टा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव बिलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ ४ ॥ दृष्ट्येति । त्वदुपमाभ्यां त्वद्वेषभूषणसदृशाभ्यां लसयां वेषभूषाभ्याम् आाभरणतद्विन्यास विशेषाभ्यामभिरामम् । अतः सहशदर्शनादुच्चकैरतिशयेन तानि तानि विलसितानि क्रीडाः स्मृत्वा बाष्पकण्ठतया रुद्ध आलापो यासाम् । त्वद्गत- मानसतया निजपरमिदां खपरभेदमपि ॥ ४ ॥ श्रीमन् ! किं त्वं पितृजनकृते प्रेषितो निर्दयेन कासौ कान्तो नगरसुदृशां हा हरे! नाथ! पार्याः | आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- सुन्मादानां कुहकवचसां विस्मरेत् कान्त का वा ॥ ५ ॥ श्रीममिति । निर्दयेन कृष्णेन पितृजनकृते नन्दयशोदयोः प्रियार्थी किं प्रेषितोऽसि । असौ नगरसुदृशां कान्तः विदग्धजनविधेय इदानीं के इति प्रणय- वचनसमनुस्मृतभगवद्भुणकृतपारवश्या ऊचुः हा इति । हरे! भक्तजनसन्तापशमन ! हा नाथ! अस्ममाणसंरक्षक! निजरूपामृतपानेन जीवय | अमृतमयं वपुर्यस्य तस्य तव आश्लेषाणां चुम्बनानां हन्त उन्मादानाम् आत्मानं विस्मृत्यैव कृतानां तत्त- १. हि च. पाठः, 'प' घ. क. पाठः,