पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह-- गत्वा सान्दीपनिमथ चतुष्पष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । पुत्र नष्ई यमनिलयनादाहृतं दक्षिणार्थं दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ १ ॥ गत्वेति । स्वतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थ सान्दीपनि नाम मुनिं गत्वोपनयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं तस्मै गुरवे दक्षिणार्थं दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्र- भवं शङ्खम् ॥ १ ॥ श्रीकृष्णेन बृन्दावनान्मधुराप्रस्थाने गोपीनां परितापेशमनार्थं यदुक्तम् 'अचिरादुपयामि सन्निधिं व इति तत् सत्यं कर्तुमात्म निर्विशेषमुद्धवं मथुरास्थः स्वयं प्रेषयामासेत्याह स्मृत्वा स्मृत्वा पशुपसुदृश: प्रेमभारमणुन्नाः कारुण्येन त्वमपि विवशः माहिणोरुद्धवं तम् । किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युदेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ २ ॥ स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात् प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवा- त्सल्येन विवशः परवशः । किञ्चेति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाह - अमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रद- र्शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम एवं त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥ त्वन्माहात्म्यमथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । १. 'पायनपूर्वकं प्रा' क. पाठ: २. 'पप्रश' क. पाठः