पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, वसुदेवनन्दोग्रसेनादीन् । व्याप्तस्योत्सारणमशक्यं तदपि समशिषत् आज्ञापया- मास | दुष्ठस्य कंसस्योक्तिभिः रुष्टः कुपितस्त्वम् अञ्चन् उत्पतन् उदञ्चतः उन्न- मितस्य खड्डस्य व्यावल्गेन चलनेन दुस्सङ्ग्रहं महीतुमशक्यमपि हठादू बला- त्कारेणैव औमसेनि कंसं प्राग्रहीः ॥ ८ ॥ सद्यो निष्पष्टसन्धि भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्ये* तदैव त्वदुपरि पतिता नांकिनां पुष्पवृष्टिः । किं किं धूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था पैरम ! परमियं वासना कालनेमेः ॥ ९ ॥ सद्य इति । आपात्य पातयित्वा तस्योपरिष्टाद् उपरि आपात्ये आपतति वय तब कंसोपरिपतनं नाकिनां पुष्पवृष्टिपतनमपि युगपज्जातमित्यर्थः । किं किं ब्रूमः । त्वत्स्मरणं त्वत्सायुज्यं कुरुत इत्यत्रोपपत्तीर्बहु न कथयामः, यतस्तदानीं भिया सततं त्वद्गतात्मा स कंसः सायुज्यं भेजे । यद् भीत्यापि विष्णुस्मरणं, सेयं परं केवलं कालनेमेस्त्वद्वधोत्था बासना | कंसः प्राकू कालनेमिर्नामासुरः । स च विष्णुना हतः ॥ ९ ॥ तद्द्भ्रातृनष्ट पिष्ठ्ठा द्रुतमथ पितरौ सन्मनुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः । भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीति सखायं लब्ध्वा तुष्टो नगर्यो पवनपुरपते ! रुन्धि मे सर्वरोगान् ॥ १० ॥ तदिति । तद्भ्रातून कंसानुजान् ककन्यग्रोधकादीन् । पितरौ देवकीवसु- देवौ । उच्चैः अतिशयेन मोदयन् | अमरगुरोः बृहस्पतेः आप्ता गृहीता नीतिर्नय- शास्त्रं येन तमुद्धवं सखायं कार्यसचिवतया नर्मसचिवतया च लब्ध्वा तुष्टः कृत- कृत्य इव नगर्थी वसन्निति शेषः ॥ १० ॥ इति कुवलयापीढवधवर्णनं भगवतो महरञ्जप्रवेशवर्णनं मलयुद्धवर्णन मल्लवधवर्णनं कंसवधादिवर्णनं च पञ्चसप्ततितमं दशकम् । १. 'ण औं' क.ग. पाठः, २. 'सम् ॥' क. पाठः, ३. 'वरद!' क.घ.डे. च. पाठः ४. 'कृत्वा तु घ.रु. पाठ..

  • आपततीत्यापात्यः 'भव्यगेय-' (३-४०६८) इति निपातनात् कर्तरि ण्यत् ।