पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुण्यकाले पुण्यपरिपाक उपगते इदंप्रथमं दृष्ट्वा विगतपापा: पूर्णानन्दाश्च सन्तः त्वदर्शनेन स्मृतानि त्वञ्चरितानि सरसं सानन्दं यथा भवति तथा अभिजगुः प्रशशंञ्जुरित्यर्थः ॥ ५ ॥ चाणूरो मलवीरस्तदनु नृपगिरा सृष्टिको मुष्टिशाली त्वां रामं चाभिषेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मलमभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ६ ॥ , चाणूर इति । झटझटिति सशब्दं मियो मुष्टिपातरतिरूक्षं यथा भवति तथा । उत्पात उन्नयनम् आपातनं भुव्यवपातनम्, मिथो बद्धहस्तपादयोरितरे- तरत आकर्षणम् एवंविधानि विविधानि रणानि तावदासताम् । मृत्योर्मरणात् प्रागेबान्योन्य हस्तपादादिकृतान् बन्धान् मोक्षांश्चायमगमत् किमुच्यते मृतो बन्धा- मोक्षमगमदितीति भावः ॥ ६ ॥ a 7 हा धिक कष्टं कुमारौ सुललितवपुषौ मलवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोव्या पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७ ॥ हा घिगिति । करेण यद् उद्धामणं तेनैव विगलदसुम् उर्व्यां पोथयामासिथ प्रक्षिप्तवान् | नष्टशिष्टैः प्राणपरीप्सया दुधावे धावनमकारि ॥ ७ ॥ कंसः संवार्य तूर्ये खलमतिरविदन् कार्यमार्यान् पितृस्ता- नाहन्तुं व्यासमूर्तेस्तव च समशिषद् दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चनुदश्चत् - खड्डव्यावलगदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥ ८ ॥ कंस इति । कंसः कार्यम् एवं स्थिते यत् कर्तव्यं त्वत्पादपतनं, तद् भ वितव्यंतॉबलाद् अविदन् अजानन् आर्यान् सज्जनान् । आहन्तुं निग्रहाय । पितॄन् १. 'तुं सझि' ख. पाठः