पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मल्लक्रीडारङ्गमाविशन्तम् । मङ्गल्यरूपयाङ्गभङ्गचा रभसहृतानि बलात्कारेण हृतानि मनोलोचनानि येषाम् | हंही हे लोकाः! यत्तुत्रोऽयं, स नन्दस्त्रिजगति धन्यः नु निश्चितम् । अथवा नाहे नहि, याः एनं स्तनान्तरे कृत्वा आलिङ्गनादि- सुखमन्वभूवन्, ताः पशुपालाङ्गना: नन्दादपि धन्यतमा इति केचित् | नो नो गोप्यः, यास्य मातृभावमन्वभूत् सा यशोदा धन्या । नो तो यशोदा, वयमेव धन्येक्षणाः यानि श्रीकृष्णाच्ये परब्रह्मणि निममानि तान्यस्माकमीक्षणान्थेव भाग्यवन्तीति शशंसुः स्तुतवन्तः ॥ ४ ॥ - , ननु सर्वेषामेवं माये ब्रहबहुमानादेः किं कारणमित्याशङ्कायामाह- पूर्ण ब्रह्मैव साक्षानिरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्पलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । दृष्ट्वाय त्वां तदेदंप्रथममुपगते पुण्यकाले जनौधाः पूर्णानन्दा विषाषाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ५ ॥

- - पूर्णमिति । पूर्ण सर्वा गतम् । अतस्तचैव सर्वशरीरेषु जीवरूपेणावस्था- नाद् आत्मनि च सर्वेषां निरतिशय स्नेहबहुमानादिसम्भवात् त्वयीदमुपपद्यत इति भावः । नन्वेकस्याने कत्राव थानं कथमित्यत्राह - ब्रह्मेति । आकाशंबद् बृहत्त्वा- देवेत्यर्थः । ननु ब्रह्मणः कथं चाक्षुषतः तत्राह -- साक्षादू गोषेषु व्यलासीरिति । श्रीकृष्णात्मनावतीर्णस्यादित्यर्थः । ननु शरीरपरिग्रहश्चेद् ममापि संसारमरूझ इत्य- त्रा --- निरवधिपरमानन्दसान्द्रप्रकाशमिति | निरवधि नित्यं परमानन्दरूपं सान्द्रप्रकाशं विज्ञानघनम् । तत्र नित्यत्वात् जननमरणासम्भवः, परमानन्दरूप - त्वाद् दुःखाभावः, विज्ञानघनत्वादज्ञानाभावश्चेति संसारनिदानाभावात्रोक्तदोष इति भावः । कथं तर्हि कंसादयो मां ब्रह्मतया न जानन्तीत्यत आह -- न खस्विति । यैः कैश्चजन्मजन्मान्तराजितपुण्यपरिपाकवद्भिरेव त्वं ब्रजेत्यावेदितो- भूरित्यर्थः । ननु ताई पाठिानां कथं मदर्शनं संबोभवीतीति चेत्, सत्यं, पुण्य- पापयोः पुण्याधिक्ये सति तलरिपाकत्रशेन त्वदर्शनसुखं तावत् सम्भवति । तत्- स्त्वदर्शन स्मरणचरित्रवर्णनादिना विगतपापाः सन्तः क्रमादेतेऽपि त्वत्तत्त्वज्ञानेऽधि- कियन्त एवेत्यभिप्रायेणाह - दृष्ट्राथ स्वामिति । अनौषाः शानिनोऽज्ञानिनच त्यां 1 WWW.