पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ नारायणीये [स्कन्धः- १ स्वकर्मभिर्देवान् प्रसाद्य स्वर्गे गतानां पुरत एव सन्निधत्ते । किञ्च, अजसम् इहा- मुत्रे च तैर्मक्तैः- अनभ्यर्थितान् कामान् अभीष्टान् अर्थात् पुरुषार्थान् वितरति ददाति। अन्यस्त्वनभ्यार्थि॑तान् न ददाति, न च सर्वान् कामान्, न चाजस्रं, किन्तु अनुत्रैवाभ्यर्थितेषु कांश्चिदेवार्थान् ददाति । अपिच अकामनया ये सेवन्ते, तेभ्यः परमानन्दसान्द्रां गतिं मोक्षं च ददाति । अन्यस्तु सकामेभ्योऽकामेभ्यो वा मोक्षं न ददाति । एवं निश्शेषलभ्यः सकलजीवनिवः प्राप्यस्त्वदात्मकः पारिजातः नि- रवधिकफलः अपरिच्छिन्नमोक्षाख्यफलप्रदः । अन्यस्तु परिच्छिन्नफलप्रदः । एवं त्वदात्मके पारिजाते तिष्ठति अयमर्थित्रजः कामिसमूहः व्यर्थ वृथैव क्षुद्रम् असारं तं मुधा पारिजातशब्दवाच्यं शक्रवाटी द्रुमम् इन्द्रोद्यानवृक्षम् अभि लपति बहुक्लेशेन प्राप्तुमिच्छतीत्यर्थः ॥ ८ ॥ ननु ब्रह्मरुद्रादयोऽपीश्वरत्वसाम्याद भक्ताभीष्टफलदाः । अतस्तेऽपि सेव्या इत्याशङ्कय भगवतस्तेभ्यो विशेषमाह - —— कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परंजने स्वात्मनोऽपीश्वरस्त्वम् । त्वय्युचैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या- स्त्वं चात्माराम एवेत्वतुलगुणगणाधार ! शौरे ! नमस्ते ॥ ९ ॥ कारुण्यादिति । परे ब्रह्मादयः । कारुण्याद् भक्तवत्सलतया । अन्यं मोक्षा- व्यतिरिक्तं कामं वरं ददति | त्वं विशेषाद् विशिष्टाद् ब्रह्माद्यतिशयितात् कारु- ण्यात् स्वात्मदः स्वात्मानं स्वरूपं मोक्षमपि ददासीत्यर्थः । किञ्च, अन्ये ब्रह्मादगः ऐश्वर्याद् जगति अस्मिन् प्रपञ्चे परजने स्वव्यतिरिक्तेषु स्थिरचरेष्वेव ईशले निग्रहीतुमनुग्रहीतुं वा शक्ता भवन्ति । त्वं तु स्वात्मनः स्वरूपस्य ब्रह्मणोऽपश्वरः । स्वात्मानमेव जीवरूपेण संसारार्णवे निक्षिप्य निग्रहीतुं, तत्समकालमेव स्वानन्दानुभ- बपदे (सं) स्थाप्यानुग्रहीतुमपि शक्तो मवसीत्यर्थः । ननु सेवकानां स्वात्मदाने किं फल- मित्याशङ्कय भगवतः स्वस्यैव फलरूपतां दर्शयति- त्वयति । त्वायें ब्रह्माण। स्फी- १. 'त्रापि तैं' क, पाठः, २. 'नून' ख. पाठः, ३. भ्य एव । न मोक्षं द' ख. पाठः, ४. 'रि' क, पाठ ५. 'यि स्फी' क. पाठः,