पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन्महिमानुवर्णनम् । नो चेजीवाः कथं वा मधुरतरमिदं त्वइपुचिद्रसाई नेत्रैः श्रोत्रेय पीत्वा परमसुधाम्भोधिपूरे मुरन् ॥ ७ ॥ दशकम् - १] कष्टेति । हे अजित ! मायापारतन्व्यरहित ! ते तव सृष्टिचेष्टा कष्टा । कुत इत्यत आह - जीवभाजां बहुतरमवखेदावहति । अत्र जीवशब्देन लिङ्ग- शरीरमुच्यते, तद् भजन्तीति जीवभाजो जीवा एव, तेषाम् । भवखेदा जनन- मरणदुःखानि, तानावहतीति तथा । इत्येवं मया मूढमतिना पूर्वमालोचितं चि- न्तितम् । तत्तु नेत्याह --- नैवमद्याभिजान इति । इदानीं त्वद्रूपास्वादन- व्याटते मनसि महानुपकार एवास्माकमिति निश्चिनमीत्यर्थः । निश्चितमाह - नो चेदिति । यदि त्वं त्वय्यनुशयितान् जीवान् तद्धोग्यं प्रपश्चं च न सृजसि, तर्हि जीवाः कथं केन प्रकारेण चिद्रसाई चिदानन्दामृतद्रवेणान्तर्बहिश्च व्यासं त्वद्वपुः नेत्रैः श्रोत्रैश्च पीत्वा तद्दर्शनतदुपासनतत्कथा श्रवणद्वारेण हृदये कृत्वा परमरससु- धाम्मोधिपूरे परमानन्दामृताम्भोघौं रमेरन् उन्मज्जननिमज्जनाभ्युक्षणास्वादनादि- क्रियां कुर्युरित्यर्थः ॥ ७ ॥ एवं भगवतः सौन्दर्यगुणस्य लोकोत्तरत्वमुक्त्वा फलदातृत्वस्यापि लोको- तरत्वं वर्णयति - 7-47

  • नम्राणां सन्नियते सततनपि पुरस्तैरनभ्यर्थितान-

प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे ! त्वं क्षुद्रं तं शक्रवाटीकुममभिलपति व्यर्थमार्थव्रजोऽयम् || ८ || नम्राणामिति । लोके हि पारिजातोऽभीष्टफलंद इति भगवतस्तदतिशायि- - हे हरे ! त्वं पारिजातः त्वदात्मकः कल्पवृक्षः नम्राणां नमस्कारमात्रे- गापि भजतां पुरः पुरतः सततमपि सन्निधत्ते वरदित्सया प्रादुर्भवति । अ- न्यतु कल्पवृक्षः स्वयं न सन्निधत्ते, न च नमस्कारमात्रेण, नच सततें, किन्तु गुणानाह ww १. 'जः, ते' ख. पाठः, २. 'र्यस्य' ख. पाठः, ३. 'लं ददाति भ' ख. पाठ: ४. 'स्तु स्व' ख. पाटः. ५. 'तं स्व' ख. पाठः. इत्यादिनवमश्लोकोऽष्टमत्वेन, 'नत्राणाम्' इत्यायटम श्लोको ख-पुस्तके तु 'कारुण्याद्' . नवमस्वेन च व्याख्यायते ।