पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ नारायणीये शस्यातिस्वच्छतमा चैतन्य परिच्छेद करदाभावात् तन्मये लीलाविग्रहेऽहंगमाभिमा- नासम्भवात् तनिवन्धगत्य संसारस्यापि भगवत्यसम्भव एवेति । ननु शरीरसम्बन्धे समानेऽप्येकः संसरत्यम्यः संसारयतीति कुत एतद् वैषम्यमिति शङ्कां रिहरन् भगवन्तं सम्बोधयति - स्वमहिनविभवाकुण्ठेति | स्वस्य महिमा योगैश्वर्य, स एव विभवः शक्तिः तेनाकुण्ठ: अप्रतिहतचिच्छक्तिरित्यर्थः । अयमाशय:- जीवो मायापरतन्त्रः संसरति, ईश्वर स्वाधीनया माययाङ्गीकृतलीलाविग्रहः सन् सर्गादिलीली: करोतीति महदिदं वैषम्यम् ॥ ५ ॥ - 1- A सम्प्रति भगवन्मूर्तेः सौन्दर्य वर्णयति द्वाभ्यां-- तत्ते शा लावण्यस्यैका दिशां पूर्णपुण्यावतारम् । लक्ष्मीनिश्शकमलदीहरुन्तः [स्कन्धः - १ - सिञ्चत् सञ्चिन्तकानां पुरनुलये मारुतागारनाथ ! |॥ ६ ॥ तदिति । हे सातारानाथः ते तत् शुद्धसत्त्वमयं वपुः अनुकलये स्म- रामीत्यर्थः । प्रत्यमेति सजलजलघरवत् प्रतिनवकलायकुसुमचच्चातिमनोहरं, श्याम- लॅमित्यर्थः । लावण्यध्यैकसारनिति लावण्यद्रव्यस्य केवलसारांशेनैव विरचितमि- त्यर्थः । सुकृतिजनदृशां पूर्णपुण्यावतारमिति । अत्र फलाभिसन्धिरहितानि विहित- सकलकर्माणि सुकृतान्युच्यन्ते तदनुहातारः सुकृतिजनाः, तेषां ह॒शां पूर्णस्य निश्शेषस्य पुण्यस्यावतारः (तं), सुजनानां चक्षुरिन्द्रियैरनुभवनीय पुण्यपूर- मेव भगवन्मूर्त्याकारेण परिणतमित्यर्थः | अपिच लक्ष्म्याः प्रेमप्रतिपत्तिविस्रम्भा- द्येक विषयतया निश्शङ्कलीलानिलयनम् । किञ्च सञ्चिन्तकानाम् उपासकांनाम् अन्तः हृदये अमृतस्यन्दसन्दोहं ब्रह्मानन्दामृतद्रवशरी सिञ्चदू, उपासकानां हृदयं ब्रह्मानन्दामृतद्रवेणालाव्य सकलसन्तापं शमयतीत्यर्थः ॥ ६ ॥ कष्टा ते सृष्टिचेष्टा हुतरभवखेदावहा जीवभाजा- मित्येवं पूर्वमालोचितमजित ! मया नैवमद्याभिजाने । १. 'लोक' ख. पाठः १. 'लम् । ला' ख. पाठः, है, 'यभु' क, पाठ,