पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन्महिमानुवर्णनम् | MAL - यथा तरङ्गाणां कल्लोलादिशब्दवाच्यत्व व्यतिरेकेण सिन्धोर्भेदं नोपलभामहे, एवं शुभ द्धसत्त्वस्यापि ब्रह्मणोऽभेद इति । अत्र प्रमाणमाह - आहुरिति । आचार्या इति शेषः । ते ह्याहुः - अथवा चिदानन्दजलनिधेरे कोऽभिनवस्तरङ्ग एव सत्त्वम् इत्यादि । नन्वेवं शुद्धसत्त्वस्य ब्रह्मानन्यत्वे भगवन्मूर्तेः किमायातं, तत्राह – तदात्मेति । तत् सत्त्वमे बात्मा श्रीमूत्तिर्यस्य सः । त्वं कस्मान्नो निष्कलः निष्कलं ब्रह्मैव त्वभित्युक्तियुक्ति- मतीत्यर्थः । नन्वेवं तर्हि सकलमूर्तिशब्दोऽनन्यगतेर्निरालम्बः स्यादित्याशङ्कयाह - सकल इति । त्वत्कलासु अंशावतारेप्वेव सकलशब्दः प्रयुज्यत इति शेषः | हे भूमन् ! परिपूर्ण ! त्वं तु निष्कलब्रह्मैवेत्यर्थः ॥ ४ ॥ । दशकम् - १] - एवं भगवन्मूर्ते: स्वरूपोत्पत्तिं विमृश्य सम्प्रति तस्या उत्पत्ति विमृशति- निर्व्यापारोऽपि निष्कारणमज भजसे यत् क्रियामीक्षणाख्यां तेनैवोदेति लीना मकृतिरसतिकल्पापि कल्पादिकाले । तस्याः संशुद्धमंश कमपि तमतिरोधायकं सत्त्वरूप सत्वं धृत्वा धाति स्वमहिमविभवाकुण्ठ ! बैकुण्ठ ! रूपम् ॥ ५ ॥ निर्व्यापार इति । हे अज! विष्णो ! त्वं निर्व्यापारी निष्क्रियः सन्नपि ईक्षणाख्यां मायाप्रेरणात्मिकां क्रियां भजसे अङ्गीकरोषि | यथा अयस्कान्तमणि- निष्क्रियोऽपि सनिधिमात्रेण लोहधातुमाकर्षति, तद्वदित्यर्थः । निष्कारण निर्गत कारणं प्रयोजनं यस्मादिति क्रियाविशेषणम् | तव मायाप्रेरणे कारगमस्मदादिमि- र्न ज्ञातव्यमिति भावः । एवं त्वमीक्षणाख्यां क्रियां भजस इति यत्, तेनैव कारणेन लीना द्विपरार्धावसाने त्वयि लयं प्राप्ता प्रकृतिर्माया उदेति प्रकाशते । अत्र ली- नोदेतिशब्दौ प्रकृतेरुत्पत्तिविनाशाभावं सूचयत इति न तस्या अनादित्वहानिः । कदोदेतीत्यत आह - कल्पादिकाल इति । कल्पानां ब्रह्मणो दिनानामादिकाले आद्यदिनारम्भकाले ब्रह्मप्रलयावसान इत्यर्थः । न तु कल्पस्यादिकाले, तदा प्रक- तिलयोदयाभावात् । मायां विशिनष्टि - असतिकल्पेति । प्रायेणासती सदसत्त्वा- भ्यामनिर्वचनीयेत्यर्थः । हे बैकुण्ठ ! विकुण्ठनिलय | सः मायाप्रेरकस्त्वं तस्या मायायाः तं पूर्वोक्तं सत्त्वरूपं कमप्यंश पुत्वा उद्धृत्य रूपं लीलाविग्रहं दधा- सि भक्तानुग्रहाय गृह्णासि । ननु विग्रहवांश्चेत् संसारप्रसङ्ग इत्याशङ्कयाह - अतिरो- बायकमिति । तत्र हेतुमाह - संशुद्धमिति । अयं भावः - शुद्धसत्त्वरूपस्य मायां- - १. 'मन' ख. पा