पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन्महिमानुवर्णनम् । १५ तभाग्याः जन्मजन्मान्तरार्जितपुण्यसञ्चयेनाधिगतभक्तिज्ञानमार्गाः चेतना जीवाः उच्चैरारमन्ति अतिशयेन मोदन्ते । त्वं चात्माराम एवं, चस्त्वर्थः, त्वं तु त्वय्येव -रमसे, तव चान्येषां च त्वमेव निरतिशयसुखभूत इत्यर्थः । इति अतो हेतोः अतुलानां लोकोत्तराणां गुणानामाधार ! आश्रयभूत ! हे शौरे ! श्रीकृष्ण ! ते तुभ्यं नमः नमस्करोमीत्यर्थः ॥ ९ ॥ षड्गुणाश्रयताया अभ्यसाधारणतामाह दशकम् - १] - ऐश्वर्य शङ्करादीश्वरावनियमनं विश्वजोहराणां • तेजस्संहारि वीर्य विमलमपि यशो निस्पृहैथोषगीतम् । अङ्गासङ्गा सदा श्रीरखिलविदसि न कापि ते सङ्गवार्ता तद् वातागारवासिन् ! हुरहर! भगवच्छन्दमुख्याश्रयोऽसि ॥ १०॥ ऐश्वर्यमिति । हे वातागारवासिन् ! मुरहर! ते तवैश्वर्यं शङ्करादीनामीश्व- राणां विनियमनं तत्तदधिकारप्रवर्तकम् । किञ्च तत्र वीर्य विश्वेषां सर्वेषां तेजः पराक्रमं हरन्तीति विश्वतेजोहराः श्रीशङ्करादयः, तेषां तेजः प्रभावं संहतु शील- मस्येति तथा । बक्ष्यति च 'मुहुस्तावच्छक्रम् ' ( दश. ८२.लो. ९) इत्यादि । त यशोऽपि विमलं पापशोधकम् | निस्पृहैर्मुक्तैरप्युपगीतं, त्वचरिताकृष्टचेतस्तया तैर्वर्णितमित्यर्थः । श्रीश्च सदा अङ्गासङ्गा तव वक्षःस्थलमाश्रियैते | अखिलवि- दसीति । अखिलं स्वमात्मानं स्वमायां तत्कार्यं च वेत्तीत्यखिलविदसि त्वम् । अन्ये त्वां तत्त्वतो न जानन्तीति भावः । कापि विषये! ते सस्य वार्तापि कथापि न श्रूयत इत्यर्थः । तत् तस्मात् यस्मादैश्वर्ययशः श्री वीर्यज्ञानासतानां भगव- च्छब्दवाच्यानां त्वय्यतिशयेन वृत्तिस्तस्मादित्यर्थः । भगवच्छन्दस्य मुख्या- श्रयो वाच्यार्थो भवसि, अन्येषु भगवच्छब्दस्य लाक्षणिकी वृत्तिरि- त्यर्थः ॥ १० ॥ २ इति भगवन्सहिमानुवर्णनं प्रथमं दशकम् १. 'वेत्यर्थः' क. पाठः. २. 'सि । अ' ख. पाठः. ३. 'येषु ते' क. पाठ..