पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७४] धनुश्शालायां धनुर्भङ्गादिवर्णनम् । दूराद् निरीक्षिता गतिर्यस्य स त्वं गोपुरं प्राविशः प्रविष्टन् । आघोषेण त्वदर्शनादिप्रवृत्त गौरजनजनितेनानुमितः कल्पितो यस्त्वदागमः तज्जनितेन महता हवेंग उल्ललतः क्षुभिताद् देवकीवक्षोजाइ यः पयोरसः प्रजगाल, तद्याजेन त्वत्कीर्तिस्त्वत्प्रवेशात् पूर्वमन्तर्गता नगरं प्रविष्ठा ॥ ७ ॥ ● आविष्टो नगरी महोत्सववती कोदण्डशालां वजन् माधुर्येण नु तेजसा नु पुरुषैरेण दत्तान्तरः । खग्भिभूषितमर्चितं वरधनुर्मा मेति वादात् पुरः मागृहाः समरोपयः किल समाक्राक्षीरभक्षीरपि ॥ ८ ॥ आविष्ट इति । माधुर्येण वा श्रीमूर्तेर्वा मधुरतया तेजसा अनृप्यतया वा प्रतिषेद्धुमशक्यतया रक्षिपुरुषैईरेण दत्तान्तरः परिहृतमार्गः सन् मा मा धनुः स्पृशेति वादादू रक्षिपुरुषवचनात् पुरः पूर्वमेव धनुः प्रागृह्णाः अग्रहोः । पुनरपि मा मा समारोपयेति वादात् पुरः समरोपयः । एवं मा मा आकर्षयेति वादात् पुरः समानाक्षीः । मा मा भारित वादात् पुरः ॥ ८ ॥ व: कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम आपसमहाध्वनिस्तव विभो! देवानरोमाञ्चयत् । कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी- चण्डाभ्याइतरक्षिपूरुषर वैरुत्कूलितोऽभूत् त्वया ॥ ९ ॥ व इति। कंसक्षपणं कंसवधनामोत्सवो भावो | तस्य पुरतः पूर्व मङ्गलार्थः प्रारम्भतूर्यरवः कर्तव्यः । तत्महशतव चापध्वंस महाध्यनिर्देवानरोमाञ्चयत् कंस- मपि •वधिप्यतीति रोमाञ्चितशरीरानकृत | कंसस्यापि तदुदितः चापध्वं सैमहाघ्व- निश्रवणाज्जातो वेपथुः कम्पः तस्यैत्र कोदण्डस्य खण्डद्वय्या चण्डाभ्याहतानां सुदृढ प्रहृतानां रक्षिपूरुषाणां रवैः धिग धिग् हा हताः स्म इति विलपनरूपैः त्वया उत्कूलितो वर्धितोऽभूत् ॥ ९ ॥


१. 'पूर्वे स' क. पाठः, २. 'सध्व' क. ग. पाठः,

  • 'अधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति' इति 'जनिवध्योश्च' (७.३. ३५) इति सूत्रे ऋति

कारः ।