पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये निशमय्य तवाथ यानवार्ता भृशमार्ताः पशुपालवालिकास्ताः । किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ १ ॥ २४८ [स्कन्ध:- १० - निशमध्ये.ते | यानवार्ती इत्रः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवंरू- पाम् । किमिदम् अमृतास्वादे विषयानमिवातिकष्टमबस्थान्तरमापतितम् । कथं न्विदम् अस्मद्भाग्यदोषाद् नन्दसूनोनिष्करुणतया वा इत्येवमादीनि परिदेवितानि बिलपनान्यकुर्बन् ॥ १ ॥ परिदेवितान्येवाह - करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेषुः ॥ २ ॥ करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत् किमु बत विद्यामहे ॥ २ ॥ चरममहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्विनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ ३ ॥ चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमीप्तं दूततया व्यमुचः प्रेषितवान् ॥ ३ ॥ अचिरापयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ४ ॥ अचिरादिति । वो युष्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद् भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिषौ । अन्ते मोक्षमपि वो वितरिष्यामीत्यर्थः ॥ ४ ॥ सविषादभरं सयाच्यमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तदिशि पातयन्नपाङ्गान् सबलोग्क्रूररथेन निर्गतोऽभूः ॥ ५ ॥ १. 'माहूय दूं' ख. पाठः कार