पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७२१ अक्रूरस्य भगबत्कृतसस्कारादिवर्णनम् । सायन्तनेति । सायन्तनः सन्ध्यासमयस्थः आम्लव: आकण्ठं खानं तेन विशेषेण विविक्तगात्रौ स्वच्छदेही नातिप्रपञ्चम् अनतिबहुलं यथा तथा धृतः भूषणैः चार्मनोहरो वेषोऽलङ्गियाविशेषो ययोः ॥ ९ ॥ दूराद् रथात् समवरुह्य नमन्तमेन- मुत्थाप्य भक्तकुलमौलिमथोषगृहन् । हर्षान्मिताक्षरगिरा कुंशलानुयोगी पाणि प्रगृह्य सबलोऽथ गृहूं निनेथ ॥ १० ॥ दूरादिति । हर्षादुपगृहन् मिताक्षरया गिरा कुशलानुयोगी कुशलं पृच्छन् गृहं निनेथ प्रवेशयामासिथ ॥ १० ॥ नन्देन साकममितादरमर्चयित्वा तं यादव सदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ ११ ॥ नन्देनेति । भूपतिनिदेशकथां कंसाज्ञावचनं निषेध उपायनसंभारसंभृत- शकटसंयोजनाद्यादिश्य तेनाक्रूरेण सह नानाकथाभिः निशामनैषीः ॥ ११ ॥ तस्यां निशायां श्रीकृष्णे गोपीनामन्यासक्तिशङ्काभूदित्याह चन्द्रागृहे किमुत चन्द्रभगागृहे तु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्यो बिलम्बत इति ममदाभिरुचै- www रातो निशि मरुत्पुरनाथ! पायाः ॥ १२ ॥ इति अनुरस्य गोकुलयात्रा-वृन्दावनप्राप्ति-भगवत्समागम- भगवत्कृतसत्कारादीनां वर्णनं द्विसप्ततितमं दशके सठिकम् । १. 'तो' क. पाठः,