पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७२] अक्रूरस्य गोकुलयात्रावर्णनम् । बभयेन ममाद्य श्रीकृष्णदर्शनं भूयादित दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्त- यन् नान्यत् किञ्चिदपि व्यजानात् ॥ ३ ॥ तदेवाह - O द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्मध्यामि किंस्विंदपिनाम परिष्वजेय | किं वक्ष्यते स खलु मां क नु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ४ ॥ द्रक्ष्यामीति | वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं यस्य तं पुमांसं पुरुषं किंस्विद् द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शन सुखमनुभवामि । अपि- नामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अक्रूरेति किं वक्ष्यते । क्कनु कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरणनैर-तर्येण तदालम्बनतया भवन्मय मार्ग निनाय अतिक्रान्तवान् ॥ ४ ॥ भूयः क्रमादभिविशन् भवदधिपूर्त बृन्दावनं हरविरिञ्चसुराभिवन्धम् । आनन्दमन इव लग्न इव मोहे किं कि दशान्तरमवाप न पङ्कजाक्ष ! ॥ ५ ॥ भूय इति । प्रमोहे लम्रो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं नावाप ॥ ५ ॥ पश्यन्नवन्दत भवतस्थलानि पांसुष्ववेतृत भवञ्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरलाः परात्मन् ! ॥ ६ ॥ · पश्यनिति । भवद्विहृतिस्थलानि क्रीडा स्थानानि अवन्दत । भवच्चरणाङ्कितेषु पां- १. 'दि' क.. पाठः.