पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये एवंविधैरिति । आनन्दस्य सूर्छा वृद्धि पदे पदे अनुक्षणम् असीमं निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥ इते के शिवधवर्णनं व्योमासुरवधवर्णनं च एकसप्ततितमं दशकम् । ত है . अथ कंसवधमाह दशकचतुष्टयेन- कंसोऽथ नारदगिरा त्रजवासिनं त्वा- माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । आहूय कार्डकमखच्छलतो भवन्त मानेतुमेनमहिनोदाहनाथशायिन् ! ॥ १ ॥ wwwwwww कंस इति । विष्णुत्वद्वधार्थं देवक्या जातो नन्दवजे वसतीति नारदस्य गिरा दीर्गहृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरी- क्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥ अक्रूर एष भवदपिरश्चिराय त्वदर्शनाक्षममनाः क्षितिपालभीत्या | तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा- A मानन्दभारमतिभूरितरं बभार ॥ २ ॥ अक्रूर इति । भवदङ्घ्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसमयेन अहं कृष्णदर्शनाक्षम इति मनो यस्य स त्वदर्शनाक्षममनाः ॥ २ ॥ सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन सुदुरपायभयेन दैवं संमार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ३ ॥ सइति । त्वाय त्वद्विषये मनोरथगगान् दर्शनस्पर्शनादिरूपान् मनसा धार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कंसभृत्यतादिहेतुकेन भगवद्दर्शनाभा-