पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्योमासुरवधवर्णनम् । आलम्भमात्रेण पशो: सुराणां प्रसादके नून इवाश्वमेधे । कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुवुः केशवनामयन् ॥ ६ ॥ आलम्भेति । अश्वमेधयागे हि पशुमालभ्य तेन यजने कृत एव देवानां प्रसादः स्यात् । इह लालम्भमात्रेण अश्व हंसामात्रेण सुराणां प्रसादो जातः । अतो नूने अपूर्वे अश्वमेधयागे अश्ववधे वा कृते ततः केशवनामधेयं त्वां तुष्टुवुः ॥ ६ ॥ कंसाय ते शौरितत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । मातेन केशिक्षपणावसाने श्रीनारदेन त्वमभिडतोऽभूः ॥ ७ ॥ कंसायेति । नायं कृष्णो नन्दसुतः, किन्तु देवक्या अष्टमसुत इति ते शौरिद्युतत्वमुक्त्वा ततस्तद्वषोत्कं वसुदेववधोयुक्तं कंसं वाचा प्रतिरुध्य के शिक्षण- गावसाने प्राप्तेन ॥ ७ ॥ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ८ ॥ कदापीति | निलायनक्रडिने तिरोधाननिरीक्षण स्पर्श नरूपे सश्रद्धन् । व्योमचरोपरोधी देवशत्रुः ॥ ८ ॥ स चोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशूंच ग्रहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ९॥ स इति । केचिद् वल्लवाश्चोरायिताः । केचित् पालायिताः । मयपुत्रस्तु गो- पवेषधारी चोरायितः पशून गोपशिशूंश्च पर्वतगुहासु कृत्वा निक्षिप्य पिदघे व- बन्ध । त्वया परिमर्दितो निगृहीतः ॥ ९ ॥ एवंविषैद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य | पदे पदे नूतनयन्नसीमं परात्मरूपिन् ! पवनेश ! पायाः ॥ १० ॥