पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्वेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ १ ॥ यत्नेविति । यत्लेषु नावशी अवन्ध्यः स केशी वं सिन्धुजया लक्ष्म्या अवाप्य इति सिन्धुजाचाप्यश्वेदहमपि सिन्धुजो भवामीति मत्वेद ॥ १ ॥ गन्धर्व आमेष गतोऽ पे रूक्षैर्नाद: समुद्वेजितसर्वलोकः । भवद्विलोकावधि गोपवार्टी प्रमद्ये पापः पुनरापतत् त्वाम् ॥ २॥ गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षैर्नादैः । गन्धर्वो हि मृदुनादः ॥ २ ॥ . तार्पितास्तत्र तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्त्रेनापि शक्यं तदितीव मोहात् ॥ ३ ॥ तार्येति । एष तार्क्ष्यो दनुजः । भृगुर्हि विष्णुं वक्षास पदाहन् । तत्कथां निशम्य तत् पदाहनन स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥ प्रवञ्चयन्नस्य खुराञ्चलं द्वागतुं च चिक्षेपिथ दूरदूरम् । संमूर्छितो पितनि कोषोष्मणा खादितुमातस्त्वाम् ।। ४ ।। प्रवञ्चयनित | खुराञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति पादयोर्गृहीत्वानुं दूरहूर चिक्षेपिय निससर्जिय | अतिमूर्छितेन प्रवृद्धेन । आद्रुतः अभिपतितः ॥ ४ ॥ त्वं वाहदण्डे कृतधीच वाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैवयमागात् ॥ ५ ॥ त्वमिति | वाहदण्डे अश्ववधे । बाहादण्डं भुजतुण्डम् । तद्वृद्धघा बाहादण्डवृद्धया | सप्तभिवन् अश्वीन्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५॥ १. 'वां' क. ख. पाठः, २. 'व'ख. पाठः २. 'बा' पाठ