पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७० वृषभासुरवधवर्णनम् । शाकर इति । शाकरो वृषभ: जगत्या भूम्या श्रृति स्थैर्ये हर्तुं शीलम- स्येति तथा । पशूनां पङ्क्तिं परिघ्र्ण्य विद्राव्य छन्दसां निधिं वेदगर्भम् । एषो- sरिष्टः शकरीजतीतिपच्छिन्दोमात्रयुक्तः । भवस्तुच्छन्दोनिधिरिति महान् विशेष इति च प्रतीयते ॥ ७ ॥ तुमुखमाश्यभियन्तं गृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मयन्नमदयः सुरलोकम् ॥ ८ ॥ तुङ्गेति । तुङ्गे शृङ्गमुखे शृङ्गाग्रे यस्य, तुङ्गशृङ्गं मुखं यस्येति वा । अभियन्तम् अभिगच्छन्तम् अभियं भयरहितं भद्ररूपं वृषरूपम् अभद्रं दुष्टं सगृहय्य गृहीत्वा मर्दयन् निगृह्णन् । अमदयः प्रसाद यामासिथ ॥ ८ ॥ चित्रमय भगवन्! दृषघातात् सुस्थिराजनि वृपस्थितिरुम् । वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ ९ ॥ । चित्रमिति | वृषघाताद् अरिष्टवाद् उर्थी वृषस्य धर्मत्य स्थितिः सु- स्थिराजाने | वृष्ण इन्द्रस्य चेतसि, वृषस्य धर्मस्य चेतसि, धर्मबुद्धौ सजने वा | वृषघाताद् वृषस्य स्थितिः वृषचेतसि मोदश्चेति चित्रम् ॥ ९ ॥ औक्षकाणि! परिधावत दूरं वीक्ष्यतामय मिहोतविभेदी | इत्थमात्तहसितैः सह गोपैगैहगस्त्वमत्र वातपुरेश ! ।। १० ॥ औक्षकाणीति । हे औक्षकागि ! उक्षसमूहाः | वृषभसमूडाः ! यूयं दूरं परिधावत । इहायमुक्षविभेदी वृषहन्ता अरिष्टहन्ता वा । इत्थमातहसितैः व्याङ्ग्- तहास्यवचनैः ॥ १० ॥ इति सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं शङ्खचूड. वधवर्णनं वृषभासुरवधवर्णनं च सप्ततितमं दशकम् । १. 'सिः । बू' क. ख. पाठ, २. सिधा क. भूख. पाठः,