पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- जंहार धनदानुगः स किल शहडोवलाः । अतितमनुहुतस्तपथ मुक्तनारीजन सरोजिथ शिरोमणि हलभृते च तस्याददाः ॥ ४ ॥ कदापीति | सीरिणा बलभद्रेण सह विहरति क्रीडति सति धनदानुगो वैश्रवणभृत्यः अबलाः गोपीः जहार | अतिश्रुतं शीघ्रम् अनुद्रुतः अनुगतः भयान्मु- तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणि हल- भृतेऽप्रजायाददाश्च ॥ ४ ॥ दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादावृतम् | भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किस नालपन् विरहतापिता गोषिकाः ॥ ५ ॥ दिनेष्विति । एवं दिनेषु प्रतिदिनं च सुहृज्जनैः गोपबालकैः सह । मनो- भवादपि मनोहरम् | रसितम् आस्वादितं वेणुनाद एवाभृतं येन । अमरीदृशां स्वर्गस्त्रीनयनानाम् अमृतपारणादाथिनं निजरूपामृतपानमापादयन्तम् | विरहेण क्षणं जातेन तापिताः सन्तप्तहृदया: किंतु नाला, तत्सदवस्थां विचिन्त्य बिलेपुरित्यर्थः ॥ ५ ॥ भोजराजभृतस्त्वथ कश्चित् कष्टदुष्टपथदृष्टेिररिष्टः । निराकृतिरपनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ६॥ भोजेति । भोजराजस्य कंसस्य भूतकः भृत्यः । कष्टा हिंसाबहुला दुष्ट- पथे परोपद्रवे दृष्टिरन्वेषणं यस्य | निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्टुनि - नादः क्रूरस्वनः भवते तिष्ठते स्म भवदर्शनपथे स्थितवान् || ६ ॥ शाकरोऽथ जगतीवृतिहारी मूर्तिमेष बृहती प्रदधानः । पक्तिमाशु परिधूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७ ॥