पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनम् | इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुर्नरम्विकाकमितुरम्विकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्वजपमुग्रनागस्तदा || १ || - दशकम् -- ७०] इतीति । इति उक्तमकारे रसेन कौतुकेन आकुलं यथा भवति तथा रमिता बल्लभा येन तस्मिंस्त्वयि सति पुनः कदाचिद् वलवा गोपा: अम्बिकाक मितुः अम्बिकावनाख्ये शिवक्षेत्रे भवता समं समेत्य निशि दिव्योत्सवं निषेव्य सुखं सुषुपुः । तदा उग्रः क्रूरो नागोऽजगरो ब्रजपं नन्दम् अग्रसीत् ॥ १ ॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् चला- दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्यावरीम् || २ || समुन्मुखमिति | समुन्मुखं प्रसनव्यग्रम् | उल्मुकैः अलातैः । तैः गोपैः भवत्पदे न्यपति । वैद्याघरीं विद्याधरसम्बन्धिनीम् । समुपसाद्य प्राप्य बभौ शुशुभे ॥ २ ॥ . २३९ सुदर्शनघर ! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ ब्रजपदं च गोपा मुदा ॥ ३ ॥ सुदर्शनेति । कचित् कदाचिद् मुनीन् अङ्गिरस: अपाहसम् अपहसित- वानस्मि । ते मुनयः इह अस्मिन् प्रदेशे मां वाहसम् अजगरं व्यधुः यत आत्मनः सुरूपतया हप्तोऽस्मान् विरूपतया पहसितवान्, अतस्त्वमजगरो भवितेति शप्त- वन्तः । इदानीममलतां गतः शापान्मुक्त इत्युक्त्वा स्तुवन् निजपदं विद्याधर- लोकम् ॥ ३ ॥ १. 'स्मम्बि' क्र. ग. घ. उ. पाठः,

  • परस्मैपदमात्मनेपदानित्यत्वात् ।