पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केलिसम्मृदिततया निर्मलानि ललितान्यज्ञानि यासां नवधर्मलेशैः सुभग आत्मा शरीरं यासां, मन्मथेनासहनं सुरतलीला कालक्षेपासहिष्णु चेतो यासां, तासां सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो येन ॥ ९ ॥ के लिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः स्वैरमीश! ननु सूरजापयसि चारु नाम विवृति व्यधाः | काननेsपि च बिसारिशीतलकिशोरमारुतमनोहरे मूनसौरभमये विलेसिथ विलासिनी शतविमोहनम् ।। १० ।। केलीति। केलिभेदैः आलिङ्गनचुम्बनप्रर्हरणदन्तत्रणनखक्षतचूषणसीत्कार- हिक्कावासादिप्रयोगरूपैः परिलोलिताभिः आकुली क्रियमाणाभिः । सूरजापयसि यमुनाजले विहति जलक्रीडां काननेऽपि च विहृतिं व्यधाः कृतवान् | बिसारिणा वीजनशीलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे ! भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि माम् ॥११॥ कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव! भवान् यामिनीषु कामि- नी: योगिभिर्गम्यं प्राप्यं पूर्णसम्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन् ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयत् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं माप्यं रूपं यस्य | कमनीय! कान्त ! हे कृष्ण! परिपाहि ॥ ११ ॥ इते रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णन एकोनसप्ततितमं दशकं सैकम् । १. 'इणनद' क. पाठः.